SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ एवमेगेत्ति जंपति, मंदा आरंभनिस्सिया । एगे किच्चा सयं पावं, तिवं दुक्खं नियच्छइ ॥१०॥ • व्याख्या-'एवं ' पूर्वोक्तन्यायेन 'एके ' केचन परवादिनः आत्माऽद्वैतवादमाश्रित्य ' जल्पन्ति' प्रतिपादयन्ति । किम्भूतास्ते ? ' मन्दा' जडा:-सम्यक्परिज्ञान विकलाः, अत एव 'मन्दाः' युक्तिविकला आत्माद्वैतपक्षसमाश्रयणात , | तथाहि-यद्येक एवात्मा स्यानात्मबहुत्वं ततो ये 'सत्त्वाः' प्राणिनः कृषिवलाः ' आरम्भे' प्राण्युपमर्दनकारिणि व्यापारे निःश्रितास्ते स्वयमेवारम्भकृतं पापफलमनुभवन्ति, नान्ये, यद्यात्मा एक एव सर्वत्र तर्हि एकेन विहिते पापे तत्फलं सर्वएवानुभवन्ति, एकेन विहिते पुण्ये तच्छुभफलमपि सर्वेऽप्यनुभविष्यन्ति, न चैवं दृश्यते, स्वस्त्रकर्मफलभुजः सर्वेऽपि प्राणिनः, यद्येक एवात्मा सर्वगतः शरीरं शरीरं प्रति जलचन्द्रवत्प्रतिभासते तर्हि एके सुखिनः एके दुःखिनः एके सधनाः एके निःस्वाः एके मूर्खाः एके प्राज्ञाः एके राजानः एके रङ्काः एके सुरूपाः एके कुरूपाः, एवं अन्धाः काणाः कुब्जाः पङ्गवा, एके पटुशरीरा इत्यादि व्यवस्था व्यभिचरति, तस्माद्यत्किश्चिदेतत् । यदिवा एकश्चौर्यादिकमसमञ्जसं करोति, स एव वधवन्धनच्छेदनभेदनादिकां विडम्बनां सहते, नापरे, यद्येक एवात्मा स्यात्तर्हि एकेन जन्तुना कृतेऽपराधे सर्वेऽपि सुरा मानवास्तिर्यो नारकाश्च सर्वेऽपि सदृशामेव दुःखरूपां विडम्बनामनुभवन्ति, न चैवं दृश्यते, यतो नारकाः सर्वदाऽपि दुःखरूपां विडम्बनामनुभवन्तो दृश्यन्ते " अच्छिनिमीलणमित्तं, नत्थि सुहं दुक्खमेव अणुबद्धं । नरए नेरइयाणं, अहो. १ अक्षिनिमीलनमात्रं नास्ति सुखं दुःखमेवानुबद्धं । निरये नैरयिकाणां अहर्निशं पच्यमानानाम् ॥१॥
SR No.090484
Book TitleSutrakrutangsutra Dipika
Original Sutra AuthorHarshkulgani
Author
PublisherZZZ Unknown
Publication Year
Total Pages413
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & agam_sutrakritang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy