SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ चार्वाका प्रतिपादयन्ति । अथ परवादी जीवाख्यपदार्थप्रतिपादनपरस्तत्स्थापनाय प्रोवाच-भो चार्वाक ! यदि भृतव्यतिरिक्तोऽपरः कश्चिदात्माख्या पदार्थों न विद्यते तर्हि कस्मिन्नपि मृते ' असौ मृत' इति व्यपदेशः कुतो भवति ? इत्युक्ते चार्वाकः प्राह-' अह तेसि विणासे उ, विणासो होइ देहिणो' तेषां पञ्चमहाभूतानां कायाकारपरिणतानां विनाशे सति देहिनो देवदत्ताख्यस्य विनाशो भवति, ततो 'मृत' इति व्यपदेशः स्यान्न परं पञ्चभूतेभ्यः पृथग्भूतः कश्चिदास्माख्यः पदार्थोऽस्तीति भावः, परं ये एवं प्रतिपादयन्ति परलोकयायी सुखदुःखादिभोक्ता जीवाख्या पदार्थोऽस्ति तन्मुग्धरञ्जनमेवेति गाथार्थः ।। ८॥ एतावता पञ्चभूतवादिना स्वपक्षे प्ररूपिते आत्माद्वैतवादी स्वपक्षमाविष्करोतिजहा य पुढवीथूभे, एगे नाणा य दीसइ । एवं भो ! कसिणे लोए, विन्न नाणा य दीसइ ॥९॥ - व्याख्या-पृथिव्येव स्तूपा-पृथिवीसङ्घाताख्योऽवयवी, स चैक एवास्ति, परं नानारूप:-सरित्समुद्रपर्वतनगरपुरसनिवेशाद्याधारतया विचित्रो दृश्यते, निम्नोन्नतमृदुकठिनरक्तपीतश्वेतादिभेदेन वा दृश्यते, न च पृथ्वीतत्वाद्व्यभिचरति, भेदेन विचित्रतया दृश्यमानोऽपि पृथिव्येव कथ्यते, एवं भो।' इति परामन्त्रणं, भो परवादिन् । यथा पृथिवीपिण्डः सर्वत्र एक एव, तथैवात्माऽपि नानाप्रकारो द्विपद-चतुष्पद-बहुपदादिरूपेण दृश्यते, परं भवन्मते यत्प्रतिशरीरं आत्मा वर्ण्यते तन्मुधा, यता-" एक एव हि भूतात्मा, देहे देहे व्यवस्थितः। एकधा बहुधा चैव, दृश्यते जलचन्द्रवत् ॥१॥" ॥९॥ इत्यात्माऽद्वैतवादः, अथ जैनः प्रत्युत्तरदानायाह
SR No.090484
Book TitleSutrakrutangsutra Dipika
Original Sutra AuthorHarshkulgani
Author
PublisherZZZ Unknown
Publication Year
Total Pages413
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & agam_sutrakritang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy