SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ मा परमार्थमजानन्तः केवलं खंकदाग्रहग्रस्ताः स्वस्वमतानुरागिणो मानवाः कामे इच्छामदनाख्ये प्रवर्त्तन्त इति गाथार्थः ॥६॥ अथ ग्रन्थकारः पूर्व चार्वाकमतं दर्शयन्नाह--|| संति पंच महब्भूया, इहमेगेसिमाहिया । पुढवी आऊ तेऊ य, वाऊ आगासपंचमा ॥ ७ ॥ व्याख्या-चार्वाका एवं प्रतिपादयन्ति-' सन्ति' विद्यन्ते ' इह ' जगति पञ्च महाभूतानि, सर्वलोकव्यापित्वात् , इह लोके एकेषां-भूतवादिनां 'आख्यातानि' प्रतिपादितानि ततत्तीर्थकता तैर्वा भूतवादिभिश्चार्वाकैः ‘आख्यातानि' स्वयमङ्गीकृत्यान्येषां प्रतिपादितानि । कानि तानि ? 'पुढवी' इत्यादि, पृथिवी-काठिन्यरूपा, आपो.द्रवलक्षणा, तेजउष्णरूपं, वायुश्चलनलक्षणः, आकाशं-शुषिरलक्षणं, तच्च पञ्चमं, एतानि पञ्च महाभूतानि-न कैश्चिदप्यपहोतुं शक्यानि, एतावता चार्वाकाः सर्वलोकव्यापित्वात् पञ्च महाभूतानि प्रतिपादयन्ति इति गाथार्थः ॥ ७ ॥ अथ पुनश्चार्वाकः स्वमतस्वरूपं दर्शयति| एए पंच महब्भूया, तेब्भो एगोत्ति आहिया। अह तेसिं विणासे उ, विणासो होइ देहिणो॥ ८॥ ___ व्याख्या-एतान्यनन्तरोक्तानि पृथिव्यादीनि पश्च महाभूतानि, यानि, तेभ्य:-कायाकारपरिणतेभ्यः एकः' कश्चि| चिद्रूपो भूताव्यतिरिक्त आत्मा भवति, न भूतेभ्यो व्यतिरिक्तोऽपरः कश्चिदात्माऽस्ति, यथाऽपरे वादिनः प्ररूपयन्ति, यथा-देहाद् व्यतिरिक्तः पृथगात्माख्यः पदार्थोऽस्तीति, न तथा परलोकयायी सुखदुःखादिभोक्ता जीवाख्या पदार्थोऽस्तीति
SR No.090484
Book TitleSutrakrutangsutra Dipika
Original Sutra AuthorHarshkulgani
Author
PublisherZZZ Unknown
Publication Year
Total Pages413
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & agam_sutrakritang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy