________________
वित्तं सोयरिया चेव, सबमेयं न ताणए । संखाय जीविउं चेव, कम्मुणा उ तिउ ॥ ५ ॥
व्याख्या-' वित्तं ' सचित्तमचित्तं वा ' सोदर्याः ' भ्रातृभगिन्यादयः संसारान्तर्गतस्यासुमतो दुस्सहा - अतिकटुकाः शारीरमानसा वेदनाः समनुभवतो न ' त्राणाय ' रक्षणाय भवन्ति, इति ' सङ्ख्याय ' ज्ञात्वा जीवितं च मितं प्राणिनां ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया च सचित्ताचित्तपरिग्रहं प्राण्युपघातस्वजनस्नेहादीनि बन्धनस्थानानि प्रत्याख्याय कर्मणः सकाशात्रुट्यति-अपगच्छति - कर्मणः पृथग् भवति, यदि वा 'कर्मणा ' क्रियया संयमानुष्ठानरूपया बन्धनानुय्यति । इदमुक्तं भवति - जीवस्य संसारसागरान्तर्भ्रमतो दुस्सहा वेदनाः समनुभवतो वित्तं सोदर्याश्च त्राणाय न भवन्ति इति ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया च सर्वे धनस्वजनादिसम्बन्धं प्रत्याख्याय कर्मणः पृथग्भवतीति गाथार्थः ॥ ५ ॥ स्वसमयप्रतिपादनानन्तरं परसमयप्रतिपादनायाह
एए गंथे विउक्कम्म, एगे समणमाहणा । अयाणंता विउस्लिता, सत्ता कामेहि माणवा ॥ ६ ॥
व्याख्या - एतान् ग्रन्थान् अर्हदुक्तान् व्युत्क्रम्य' परित्यज्य 'एके' केचन, न सर्वे, श्रमणाः - शाक्यादयो 'ब्राह्मणाः ' बृह[बार्ह]स्पत्यमतानुसारिणः अजानानाः 'विविधं' अनेकप्रकारं ' उत्' प्राबल्येन 'सिताः' बद्धा: - स्वसमयेष्वभिनिविष्टाःस्वमत कदाग्रहग्रस्ताः एवंविधा मानवाः स्वस्वदर्शननानुरागिण इच्छामदनादिके कामे आसक्तास्सन्तः प्रवर्त्तन्ते । इदमुक्तं भवति - अर्हदुक्तान् ग्रन्थान् दयारसमयान् परित्यज्य स्वमतिविकल्पितग्रन्थेषु आसक्ता एके श्रमणब्राह्मणाः परवादिनः