________________
सयं तिवायए पाणे, अदुवाऽन्नेहिं घायए । हणतं वाऽणुजाणाइ, वेरं वड्डइ अप्पणो ॥ ३ ॥
व्याख्या--स परिग्रहवानसन्तुष्टः सन् भूयस्तदर्जन परः समर्जितोपद्रवकारिणि च द्वेषमुपगतः प्राणिनः प्राणानतिपातयति पुनः स परिग्रहाग्रही लोभाभिभूतः सन् स्वयं व्यापादयति अप[रैरपि ]शनपि (१) घातयति, त[न] तश्वान्यान् समनुजानीते, तदेवं कृतकारितानुमतिभिर्जीवोपमर्दनेन जन्मान्तरशतान्यात्मनो वैरं वर्द्धयति, ततश्च दुःखपरम्परारूपबन्धनान्न मुच्यते । किमुक्तं भवति ? परिग्रहारम्भनिरतो जन्तुर्लोभाभिभूतः सन् स्वयं प्राणिनः अतिपातयति, अपरैर्घातयति नतोऽन्यान् समनुजानीते, ततश्च जन्मान्तरशतान्यनुबन्धि केवलं वैरमेव वर्द्धयति, उपलक्षणार्थत्वान्मृषावादादयोऽपि बन्धहेतवो द्रष्टव्या इति गाथार्थः || ३ || पुनर्वन्धमेवाश्रित्याह
जसि कुले समुत्पन्ने, जेहिं वा संवसे नरे । ममाई लुप्पई बाले, अन्नमन्नोई मुच्छिते ॥ ४ ॥
मनुष्यः
व्याख्या - यस्मिन्कुले राष्ट्रकूटादौ समुत्पन्नः, यैर्वा समं वसति पांशुक्रीडादिकं करोति, एवंविधो 'नरो ' पितृमातृभ्रातृभगिनीभार्यापुत्रादिषु 'ममत्ववान् ' ममतां कुर्वन् स्वपरिवारे स्निन् बालोऽज्ञो लुप्यते, ममत्वजनितेन कर्मणा 'लुप्यते ' विलुप्यते, कुत्र ? संसारे-नारकतिर्यग्मनुष्यामरलक्षणे ' बाध्यते ' पीडयते । इदमुक्तं भवति - 'बालो 'ऽज्ञो 'नशे' मनुष्यः स्वपरिवारममतोद्धान्तचेताः सँश्चातुर्गतिके संसारे सदसद्विवेकशून्यः सन् परिभ्रमति, ततश्च तिर्यग्नरकादिषु असातवे दनया पीडयत इति गाथार्थः ॥ ४ ॥ किं वा जानन् बन्धनं त्रोटयतीत्यस्योत्तरमाह -
6