________________
स्वादयो हि चत्वारो ' हेतव: ' कर्मबन्धकारणानि । “वर्धस्स सिच्छअविरइ - कसायजोगत्ति हेयवो चउरो " इति वचनात् परिग्रहारम्भादयो वा । न च बोधमात्रादभीष्टार्थसिद्धिः, अतः क्रियां दर्शयति-' परिजाणिया ' बन्धनं परिज्ञाय विशिष्टया क्रियया संयमानुष्ठानरूपया ' त्रोटये' दपनयेत् - आत्मप्रदेशेभ्यः कर्म पृथक्कुर्यात् । एवमुक्ते जम्बूस्वाम्यादिको विनेयो बन्धादिस्वरूपं पृष्टवान् -' किमाह ? बंधणं वीरे ' श्रीवीरो भगवान् किं बन्धनमुक्तवान् १ येन ज्ञातेन बन्धनं त्रोटयति, किमुक्तं भवति ? षट्कायवधे बन्धं विज्ञाय बन्धनं - अष्टकर्मलक्षणं परिज्ञाय त्रोटयेत् । एवं श्रीसुधर्मस्वामिनाऽभिहिते श्रीजम्बू प्रोवाच- किमाह बन्धनं वीरः १ यदवगच्छतस्तद्बन्धनं त्रोटयतीति गाथार्थः ॥ १ ॥ बन्धनप्रश्ननिर्वचनायाहचित्तमंतमचित्तं वा, परिगिज्झ किसामवि । अन्नं वा अणुजाणाइ, एवं दुक्खाण मुच्चई ॥ २ ॥
व्याख्या—अस्मिञ्जगति ज्ञानावरणीयादिकर्मबन्धनं ज्ञेयं, कर्मबन्धकारणं च आरम्भपरिग्रहावेव तत्र पूर्वं परिग्रहस्वरूपं दर्शयति-' चित्तमंतमचित्तं वा' + सचित्तमचित्तं वा ' कृशमपि ' स्तोकमपि परिग्रहं परिगृह्य 'अन्नं व अणुजाणाइ' करणकारणानुमतिप्रकारैः परिग्रहं ' परिगृह्य' स्वीकृत्य एवं दुःखयतीति दुःखं अष्टप्रकारं कर्म तत्फलं वा असातोदयादिरूपं, तस्मान्न मुच्यते । किमुक्तं भवति १ सचित्ताचित्तरूपं वा परिग्रहं परिगृह्य अन्यान्वा ग्राहयित्वा गृहतो वाऽन्याननुज्ञाय दुःखात् अष्टप्रकार कर्मरूपात्तत्फलभूतादसातोदयादिरूपाद्वा न मुच्यत इति गाथार्थः ॥ २ ॥
अथ यत्र परिग्रहस्तत्रारम्भः यत्रारम्भस्तत्र प्राणातिपात एव, एतदेव दर्शयति
१ बन्धस्य मिथ्यात्वाविरतिकषाययोगा इति हेतवश्चत्वारः । + द्विपदचतुष्पदादि । X कनकरत्नादि ।