________________
तथाहि
बुज्झेज तिउद्देजा, बंधणं परिजाणिया। किमाह ? बंधणं वीरे, किंवा जाणं तिउद्दई ? ॥१॥
व्याख्या-सूत्रमिदं सूत्रकताङ्गस्यादौ वर्तते, अस्य श्रीमदाचाराङ्गेन सहायं सम्बन्धः, श्रीआचाराङ्गे चैतत्प्ररूपितंINT "जीवो छक्कायपरूवणा य. तेसिं वहेण बंधो"त्ति । जीवषटकायानां च वधेऽष्टकोण बन्ध: स्यात् " एस खलु ।
गंथे, एस खलु मोहे, एस खलु मारे, एस खलु निरए, इचत्थं गढिए लोए" इति वचनात् । यदि षण्णां जीव- | निकायानां वधेऽष्टकर्मणां बन्ध इत्येतत्सर्व बुद्ध्येत, यदि वा केषाश्चिद्वादिनां ज्ञानादेव मुक्तिः, अपरेषां तु क्रियया मुक्तिः, जैनानां तूभाभ्यां निःश्रेयसाधिगमः, तत्रापि ज्ञानपूर्विकैव क्रिया फलवती, नहि केवलेन ज्ञानेन मुक्तिः केवलया क्रियया वा मुक्तिः । यता-" हैयं नाणं कियाहीणं, हया अन्नाणिणो किया। पासंतो पंगुलो दड्डो, धावमाणों य अंधओ ॥ १॥" तर्हि कथं मुक्तिः स्यादस्योचरं-" संजोगसिद्धीइ फलं वयंती" त्यादिवचनप्रामाण्यादुभाम्यांज्ञानक्रियाम्यामेव मुक्तिः, इत्यादि बुद्ध्येत अनेन ज्ञानमुक्तं, त्रोटयेदित्यनेन च क्रियोक्ता, तत्रायमर्थो--'बुद्ध्येत' अवगच्छे- | द्रोधं विदध्यात् । किं बुद्ध्येत ? 'पंधणं' बन्धनं ज्ञानावरणाद्यष्टप्रकारं कर्म तद्धेत वो वा मिथ्यात्वाविरत्यादयः, मिथ्या
१ एष खलु ग्रन्थ एष खलु मोह, एष खलु मार एष खलु निरय, अत्रार्थे गृद्धो लोकः । २ हतं ज्ञानं क्रियाहीनं, हता अज्ञानिनः क्रिया । पश्यन् पडलो दग्धो, धावमानश्चान्धकः ॥१॥ ३ संयोगसिद्ध्या फलं वदन्ति ।