SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ श्रेष्ठि देवचंद्रलालभाई जैन पुस्तकोद्धारे ग्रन्थाङ्क १०९ ॥ ॐ ह्रीँ अहं नमः ॥ परम सुविहितश्री मत्खरतरगच्छवि भूषण महोपाध्याय श्रीमत्साधुरङ्गगणिवर्यगुम्फितया दीपिकया समलङ्कृतं । सूयगडाङ्गसूत्रम् । Defec. नमः श्रीवर्द्धमानाय, स्वामिने परमात्मने । यदीयदर्शनादेव, परानन्दो विजृम्भते ॥ १ ॥ नानालब्धिप्रधानाय निधानाय महौजसाम् | अज्ञानध्वान्तविध्वंस- दक्षाय श्रुतवेधसे ॥ २ ॥ श्री वीरस्वामिनः शिष्य - राजाय गुणधारिणे । संयमश्रीपवित्राय, गौतमस्वामिने नमः || ३ || युग्मम् || सज्ज्ञानसुधया हार्द, चक्षुर्यैर्विमलीकृतम् । भवन्तु गुरवस्ते तु सुप्रसन्नदृशो मयि ॥ ४ ॥ श्रीसाघुरङ्गोपाध्यायै - द्वितीयाङ्गस्य दीपिका । संक्षेपरुचिजीवानां हिताय सुखबोधिनी ॥ ५ ॥ [ विरच्यत इति शेषः ] जिनप्रवचनं नौमि, श्रीमदर्हत्प्रकाशितम् । यानपात्रायितं येन, जन्तूनां भवसागरे || ६ || नत्वैतान् परमाभीष्टान् स्तुत्वा च श्रुतदेवताम् । सम्यक्त्वदीपिकां कुर्वे, द्वितीयाङ्गस्य दीपिकाम् ॥ ७ ॥
SR No.090484
Book TitleSutrakrutangsutra Dipika
Original Sutra AuthorHarshkulgani
Author
PublisherZZZ Unknown
Publication Year
Total Pages413
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & agam_sutrakritang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy