SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ तेषु विनष्टेषु आत्माऽपि विनश्यति, न परलोकयायी स्वकर्मफलभोक्ता आत्माख्यः पदार्थोऽस्तीति भावः ॥ ११ ॥ ___ एवं चात्मनोऽभावे पुण्यपापयोरप्यभाव इति दर्शयितुमाह नत्थि पुन्ने व पावे वा, नत्थि लोए इओ परे । सरीरस्स विणासेणं, विणासो होइ देहिणो ॥१२॥ | व्याख्या-आत्मनोऽभावे पुण्यपापयोरप्यभावः, तत्र पुण्यमभ्युदयप्राप्तिलक्षणं, तद्विपरीतं पापं, तत आत्मनोऽभावे । पुण्यपापयोरप्यभावः, धर्मिणोऽभावे धर्मस्याप्यभाव इति, आत्मनोऽभावेऽस्माल्लोकात्परोऽन्यो लोकस्तस्याप्यभाव एवेति । ततः किमुक्तं भवति ? आत्मनोऽभावे पुण्यपापयोरप्यभावस्ततश्च परलोकस्याप्यभाव एवेति तत्वं, पुण्यपापानुसारिणी शुभाशुभगतिः प्राणिनामुदयमायाति परलोके, तत एकस्यात्मनोऽभावे पुण्यपापपरलोकानां च अभाव एवेति । अत्रार्थे बहवो दृष्टान्ताः सन्ति, तथाहि-यथा जलबुद्धदो जलातिरेकेण नापरः कश्चिद्विद्यते, जलापगमे बुद्बुदानामप्यपगमः, तथा भूतव्यतिरेकेण नापरः कश्चिद्विद्यते आत्मेति, तथा यथा कदलीस्तम्भस्य बहिस्त्वगपनयने क्रियमाणे त्वग्मात्रमेव सर्व, नान्तः कश्चित्सारोऽस्ति, एवं भूतसमुदायविचटने तावन्मानं विहाय नान्तः सारभूतः कश्चिदात्माख्यः पदार्थ उपलभ्यते, पुनर्यथाऽऽदशें स्वच्छत्वात्प्रतिबिम्बितो बहिस्थोऽप्यर्थोऽन्तर्गतो लक्ष्यते, न तथाऽऽत्मेति । यथा च ग्रीष्मे भौमेनोष्मणा परिस्पन्दमाना मरीचयो जलाकारं विज्ञानमुत्पादयन्ति, एवमन्येऽपि गन्धर्वनगरादयः स्वस्वरूपेणातथाभूता अपि तथा प्रतिभासन्ते, तथाऽऽत्माऽपि भूतसमुदायस्य कायाकारपरिणतौ सत्यां पृथगसन्नेव तथा भ्रान्ति
SR No.090484
Book TitleSutrakrutangsutra Dipika
Original Sutra AuthorHarshkulgani
Author
PublisherZZZ Unknown
Publication Year
Total Pages413
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & agam_sutrakritang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy