________________
राजाभियोगादिस्तेन प्रसं नतोऽपि न व्रतमन, तथा गृहपति-चौरविमोक्षणतयेति ।
अस्याः कथागम्या, सा चेय-रत्नपुरे रत्नशेखरराबा स्वान्तःपुरादित्रीणां स्त्रैरक्रीडारूप: कौमुदीमहोत्सवोऽनुशाता, | पुरुषेण केनापि नगरमध्ये न स्थेय मित्याचोषणा कारिता, नृपादयः पुरुषाः सर्वेऽपि उद्याने सायं जगमः। एकसए वणिजः | षट् पुत्राः क्रयविक्रयादिव्यग्राः पुरमध्ये एव तस्थुः, स्थगितानि गोपुराणि, ततो निष्क्रान्ते महे राक्षारक्षकाण्यामु-पक्ष्यात नगरे कोऽपि नरोऽस्ति न वेति ? तर्विलोकयद्भिः पदपुत्रास्ते दृष्टा, राज्ञो निवेदिताः, राजा कुपितेन पणामपि वधः समादिष्टस्ततस्तपिता शोकाकुलो राजानं विज्ञापयति म, देव! मा कृथाः कुलक्षयमस्माकं, सबेधन गृह्मनां मुळगता पुत्राः । एवमुक्तेऽपि राजा कथमपि न मुश्चति पुत्रान , ततः पिना सर्वपुत्रघातप्रऋचं राजानं ज्ञात्वा पञ्चानां मोननं याचितवान् , | राजा पश्चापि न मुञ्चति, ततश्चत्वारो याचिता तथाऽपि न मन्यते नृपस्ततस्त्रयो याचितास्तेऽपि न मुक्तास्ततो द्वौ मार्मिनौ, तावपि अमुश्चन्तं नृपंमेकं पुत्रं याचितः, समग्रपौरजनविज्ञतो नृपः पुत्रमेकं ज्येष्टं मुक्तवान् । अत्रेयं दृष्टान्तयोजना ।
सम्यक्त्ववान् श्राद्धः सर्वप्राणातिपातविरति कर्त्तमशक्तो नृपस्थानीयषट्कायपितृतुल्येन साधुना प्रेरितोऽपि सर्वविति नामीकुरुते, पडपि जीवकायान्मोचयति साधुः, श्राद्धस्तु षण्णां मोचनेऽशक्ती ज्येष्ठ मेकं त्रसकायं मश्चनि, पाल यतीत्यर्थः साधुरेकमोचनेनाऽपि कृतार्थमात्मानं मन्यते । यथा च तस्य वणि जो न शेष पश्चपुत्रवधानुज्ञा एवं साघोरपि न शेषप्राणिवधा नुमतिः किन्तु यदेव व्रतं गृहीत्या पानेव स्थूलसच्चान् सङ्कल्पवधनिवृत्तो रक्षति श्राद्धः, तनिमितं कुशलानुबन्ध एवेत्याइ'तसेहि' सेम्यो दण्डं' हिंसा त्यक्त्वा यावद्विरमति तावत्तस्य कमलं पुन्य मेवेति ॥ १०॥