________________
कृतकारितानुमतयः प्राणिहिंसायां न सन्ति, तत्र भावविशुद्ध्या-रागद्वेपरहित बुद्ध्या प्रवर्तमानस्य सत्यपि प्राणातिपाते । केवलेन मनमा मनोव्यापाररहितेन कायेन उमयेन वा विशुद्धबुद्धेनं कर्मबन्धस्तदभावानिर्वाणमभिगच्छति-प्राप्नोति ॥२७॥ भावशुद्धया प्रवर्चमानस्य हिंसायामपि कर्मवन्धो न स्यादित्यत्रार्थे दृष्टान्तमाह
पुत्तं पिया० x x x (सू०) ॥ २८॥ व्याख्या-पिता पुत्रं ' समारभ्य ' व्यापाद्य आहारा कस्थाश्चित्तथाविधायामापोदि रागद्वेषरहितो ' असंपतो गृहस्थस्तन्मांसं झुंजानोऽपि, च शब्दोऽप्यर्थे, मेघाकी संयतोऽपि भुजानः कर्मणा नोरलिप्यने, यथा पितुः पुत्रं व्यापाद. यतोऽपि शुद्धमनसः कर्मवन्धो न स्यात्तथा तस्यारक्तद्विष्टस्य प्राणिवधे न कर्मधन्धः ॥ २८॥ एतद्दषयबाह
मणसा जे० x x x (सू०) ॥ २९ ॥ व्याख्या-ये कुतोऽपि हेतोर्मनसा 'प्रदुष्यन्ति ' प्रद्वेष यान्ति तेषां वघपरिणतानां शुद्धं चित्तं न विद्यते । एवं च यतैरुकं केवलमनः प्रद्वेषेऽपि 'अनवयं ' पापामाव इति तचेषामतध-मिध्या, यतस्ते न संचारिणः, मनसोऽशुरुत्वात् । तथाहि-कर्मबन्धे मुख्यो हेतुर्मन एव, यथा इपिथेऽनुपयुक्तो गच्छन् कर्मरन्धका, उपयुक्तस्तु सहसाहिसकोऽपि न कर्मबन्धक इति ततः पुत्रं पितेति दृष्टान्तो न समीचीन इति ।। २९ ॥ अथ तेषामनर्थमाह
इच्चेयाहिं० x x x (सू०) ॥ ३०॥