________________
X
X X ( सू० ) ॥ २५ ॥
जाणं कारणही० व्याख्या - जानन् यः प्राणिनो दिनदिन 'कावेन शरीरेण चा 'डनाकुडी' अहिंसकः कोऽर्थः ! कोपादेर्निमित्तान्मनोव्यापारेण जीवान् इन्ति न कायेन तस्यानत्रयं कर्मोपचयो न स्यादित्यर्थः । तथाऽयुधोऽजानन् कायेन हिनस्ति तस्यापि मनोव्यापाराभावान्न कर्मबन्धः 'पुट्ठोति तेन कर्मणाऽसौ केवल मनोव्यापारकृतेन केवलकाय क्रियोत्थेन वा स्पृष्ट एव वेदयति, स्पर्शमात्रेणैव तत्कननुभवति, न तस्याधिको विपाकः, स्पर्शानन्तरमेव परिघटतीत्यर्थः ॥ २५ ॥ एवं तत्सव कर्म अव्यक्तमेव, न स्पष्टं, कथं तर्हि कर्मोपचयः स्यादित्याह --
संतिभे तउ० X X
x ( सु० ) ॥ २६ ॥
व्याख्या - सन्त्यमूनि त्रीणि ' आदानानि ' कर्मोपादानि, यैः पापकर्म क्रियते, तान्याह - ' अभिकाय ' सन्मुखं गत्वा स्वयं हन्ति १, परं प्रेष्य यत्कारयति २, कुर्वन्तं वा मनसाऽनुजानीते ३, एतत्कर्मापादानत्रयम् । अयम्भावः - केवलं मनसा शरीरेण वा न कर्मबन्धः, किन्तु यत्र स्वयं कृतकारितानुमतयः क्लिष्टाव्यवसायश्च तत्रैव कर्मबन्धः ।। २६ ।। एतदेव दर्शयति
( सू० ) ॥ २७ ॥
एए उ तउ० X X X व्याख्या - तुरवधारणे, एतान्येव त्रीणि व्यस्तानि समस्तानि कर्मादानानि यैः पापं कर्म क्रियते । एवं सति यत्र
Sarg