SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ एवमन्नाणिआ० X X X ( सू० ) ॥ १६ ॥ व्याख्या - एव 'मज्ञानिकाः' सम्यग्ज्ञानरहिताः 'स्वयं आत्मीयं ज्ञानं प्रमाणत्वेन वदन्तोऽपि निश्वपार्थं न जानन्ति । इव' यथा म्लेच्छो निश्रयार्थमजानन् परोक्तमनुवदत्येवं तेऽपि ' अबोधिका ' बोधरहिताः, ततोऽज्ञानमेत्र श्रेय इति ॥ १६ ॥ इदानीमेतदूपणा याह अण्णाणिआण० X X X ( स० ) ॥ १७ ॥ व्याख्या - अज्ञानिकानां ' अज्ञानमेव श्रेय इति वादिनां यो ' विमर्शो ' विचारः स अज्ञानेऽज्ञानविषये न निय. च्छति' न युज्यते, यतो ज्ञानं सत्यमसत्यं वेति विमर्शः अज्ञानेन कृतेऽपराधे स्वल्पो दोषः, ज्ञानेन कृते महान् दोष इत्येवंभूतो विचारोsपि तेषां न युज्यते, एवंविवविचारस्य ज्ञानरूपत्वादिति, अज्ञानवादे विचारो न युज्यते । तथा आत्मनोऽपि परं प्रधानमज्ञानवादं ' शासितु' मुपदेष्टुं ' नालं ' न समर्थाः स्वयमज्ञत्वात् कृतो अन्येषां शिष्याणामुपदेष्टुं समर्था भवेयुः ॥ १७ ॥ यथा ते आत्मनः परेशं च शिक्षणेऽसमर्थास्तथा दृष्टान्तेनाह- वणे मूढो० X X X ( सू० ) ॥ १८ ॥ व्याख्या - वनेऽरण्ये यथा कश्चिन्मूढो जन्तुर्मूढमेव ' नेतारं ' प्रापकमनुगच्छति आश्रयति, तदा तौ द्वावपि 'अकोविदौ' मार्गानिपुणौ सन्तौ तीव्रं श्रोतो गहनं शोकं वा 'नियच्छतः ' प्राप्नुतः ॥ १८ ॥ दृष्टान्तान्वरमाह---
SR No.090484
Book TitleSutrakrutangsutra Dipika
Original Sutra AuthorHarshkulgani
Author
PublisherZZZ Unknown
Publication Year
Total Pages413
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & agam_sutrakritang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy