SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ व्याख्या- ' शकुनिका ' पक्षिणी यथा 'पांशुना' रजसा अवगुण्ठिता सती अ ' विधूय' कम्पयित्वा तद्रजः ' सिवं ' बद्धं ' ध्वंसयति' अपनयति एवं तपस्वी माइनो +' दवितो ' द्रव्यो भन्यो मुक्तिगमनयोग्यः 'उपधानवान् ' तपोयुक्तः कर्म ज्ञानावरणीयादिकं क्षपयति- अपनयतीति गाथार्थी || १५ ॥ अथानुकूलोपसर्गमाह - उट्टियमणगारमेसणं, समणं ठाणठितं तवस्सिणं । डहरा बुड्डा य पत्थर, अवि सुस्से ण य तं लभे जणा ॥ १६ ॥ व्याख्या- ' अनगारं संयमाने त्यिवं तं उचरोत्तर विशिष्टत्तपोनिष्टतदेहं स्थानस्थितं कदाचित् 'उहरा:' पुत्रनप्त्रादयो ' वृद्धाः ' मातृपितृप्रभृतयः 'उन्निष्क्रामयितुं ' प्रवज्यां मोचयितुं प्रार्थयेयुस्ते तं साधुमेव वदे :- वयं भवता प्रतिपाल्याः, न स्वामन्तरेण कोऽपि नः पालयिता, एवं च ते भणन्तोऽपि जनाः पुत्रादयः अपि 'शुष्येयुः' श्रमं गच्छेयुर्न च तं साधुं विदितपरमार्थं ' लभेरन् ' नैवात्मवशं विदभ्युरिति गाथार्थः ॥ १६ ॥ किश्व – as कालुणियाणि कासिया, जइ रोयंति य पुत्तकारणा । दवियं भिक्खुं समुट्ठियं, नो लब्भंति ण संठवित्त ॥ १७ ॥ व्याख्या - यद्यपि ते मातृपितृपुत्रकलशादयः ' कारुण्यानि ' करुणाप्रधानानि वचांसि अनुष्ठानानि कुर्युः 'रोयंति 'ति + " मा बधीरिति प्रवृत्तिर्यस्य स प्राकृत शैल्या माहनः " इति हर्षकुलगणिः ।
SR No.090484
Book TitleSutrakrutangsutra Dipika
Original Sutra AuthorHarshkulgani
Author
PublisherZZZ Unknown
Publication Year
Total Pages413
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & agam_sutrakritang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy