SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ व्याख्या-'डहरा' बालाः सन्तो नियन्ते, एके वृद्धाः सन्तो गर्मस्थाथ, पश्यत यूयं, के ? मानवा, मानवा एवो पदेशार्हा इति मानवग्रहणं, एवमपायबाहुल्यात सर्वास्वप्यवस्था प्राणी प्राणास्त्यजति + । अत्रैव दृष्टान्तमाह-यथा श्येनःMH पक्षिविशेषो ' वर्तकं ' तित्तिरजातीयं 'हरेत् ' व्यापादयेत् , एवं प्राणिनः प्राणान्मृत्यूरपहरेदिति गाथार्थः ।।२।। तथा च मायाहि पियाहि लुप्पती, नो सुलभा सुगती विपेचाएयाइंभयाइं पहिया, आरंभाविरमेज सुबते ॥३॥ । व्याख्या-कश्चिद्वराकः प्राणी x मातापितादिस्वजनैर्विलुप्यते, कोऽर्थः ? तेषां ममतावशात्संसारे भ्राम्यते, ततश्च | तन्मृच्छौंपगतो धर्म नोयमं करोति, धर्मेण विना च सुगतिरपि न सुलमा, तदेवमेतानि ' मयानि' भयकारणानि दुर्गतिः | गमनादीनि 'पेहिय 'त्ति प्रेक्ष्य 'आरम्मात् ' सावधानुष्ठानरूपाद्विरमेद , को भावः १ एवं च झावा यो विवेकी सुब्रतो । मवति स आरम्भानिवर्तते-आरम्भे न रमते इति गाथार्थः ॥ ३ ॥ अनिवृत्तस्य दोषमाहजमिणं जगती पुढोजगा, कम्महि लप्पंति पाणिणो। सयमेव कडेहिंगाहती, नो तस्समुच्चेज्जापुट्वं ॥४॥ ___ व्याख्या-ययस्मादनिवृत्तानामिदं भवति- जगति' पृथिव्यां 'पुढो 'त्ति पृथक्पृथग् यानि नरकादीनि स्थानानि सन्ति तेषु सावधानुष्ठानोपचितैः स्वकृतः कर्ममिर्विलुप्यन्ते-नरकादियातनास्थानेषु भ्राम्यन्ते प्राणिनः स्वयमेव कुतैः कर्ममि. +" तथाहि-त्रिपल्योपमायुष्कस्यापि पर्याप्त्यनन्तरमन्तर्मुहर्तेनैव कस्यचिन्मृत्युरुपतिष्ठति ।" इति बहुववृत्तौ । x “यो मातापितृमोहेन धर्मोद्यम न कुरते स तैरेव" इति हर्षकुलगणिः ।
SR No.090484
Book TitleSutrakrutangsutra Dipika
Original Sutra AuthorHarshkulgani
Author
PublisherZZZ Unknown
Publication Year
Total Pages413
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & agam_sutrakritang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy