________________
व्याख्या - औदारिकजन्तुप्रामस्य ' जोगं' व्यापारं - अवस्थाविशेषमित्यर्थः, औदारिकशरीरिणो हि जन्तवः प्राक्तनावस्थाविशेषादूगर्भ कललार्बुदरूपाद्विपर्यासभूतं बालकुमारयौवनादिकमुदारं योगं परि-समन्ताद् गच्छन्ति एतदुक्तं भवति - औदारिकशरीरिणो हि मनुष्यादेवलकुमारादिकः कालादिक्कतोऽवस्थाविशेषोऽन्यथाऽन्यथा वा मवत्प्रत्यक्षेण लक्ष्यते, न gree सर्वदा, नायं नियमः । एवं (सर्वेषां ) स्थावरजङ्गमानां जन्तूनां विपर्यासो द्रष्टव्यः । अपि च- सर्वेऽपि जन्तवो दुःखाक्रान्ताः सन्तोऽन्यथाऽवस्थामाजो लक्ष्यन्ते यदिवा सर्वेऽपि जन्तवोऽकान्त दुःखा-अप्रिय दुःखाः प्रियसुखाथ, अतस्तान् सर्वान्न हिंस्यादिति गाथार्थः ॥ ९ ॥ किमर्थं सच्चान हिंस्यादित्याह -
एयं खु नाणिणो सारं, जं न हिंसति किंचणं । अहिंसासमयं चेव, एसावंतं विजाणिया ॥ १० ॥
याख्या - एतदेव 'खु' निश्रये, ज्ञानिनो विशिष्टविवेकवतः 'सारं' न्याय्यं यत्कश्चन प्राणिजातं स्थावरं जङ्गमं वा न हिनस्ति न परितापयति, उपलक्षणं चैतचेन मृषाऽदत्तात्रह्मपरिग्रहनिशा भोज्याद्यपि परिहरेत् इत्येतदेव ज्ञानिनः सारं यम कर्मावेषु वर्त्तत इति । अपिच 'अहिंसासमयं चेच' ति अहिंसासमयमेव एतावदेव विजानीयात् एतावतैव कार्यसिद्धेः, किम्बहुना ज्ञानाभ्यासेन पलालप्रायेण है, + " किं ताए पढियाए, पयकोडीए पलालभ्याए । जस्थित्तियं न नायं, परस्स पीडा न कायच्या || १ || " इति गाथार्थः ॥
,
१० ॥
उक्त मूलगुणा यथोत्तरगुणानाह
+ किं तया पठितया १ पदकोट्या पलाळभूतया । यत्रैदास ज्ञातं परस्य पीडा न कर्त्तव्या ॥ १ ॥