________________
| 'विवरीयपन्नसंभूय'मिति विपरीतप्रज्ञासम्भूत-विपर्यस्तबुद्धिग्रथितं 'अन्नेहिं बुईयाणुगं' अन्यैरविवेकिमियदुक्तं तदनुगं-अविवेकिभिर्यद्भाषितं पुनस्तदनुसारेण प्रवर्तितं, एवंविधं विपर्यस्तबुद्धिरचितं पापण्डिलोकवाद निशामये-च्छृणुयादिति गाथार्थः ॥५॥ ___ अथ तमेव लोकवादं दर्शयितुमाहअणंते नितिए लोए, सासए ण विणस्सती । अंतवं णितिए लोए, इति धीरोऽतिपासए ॥६॥ ___ व्याख्या-अनन्तोऽयं लोकः, यो यादृगिहभवे स तादृगेव परभवेऽप्युत्पद्यते, पुरुषः पुरुष एव अङ्गना अङ्गनैव, अथवा | 'अनन्तोऽपरिमितो-निरवधिक इति । तथा 'नित्यः' अप्रच्युतानुत्पन्नस्थिरैकस्त्रमावो लोकः । तथा शाश्वतो न कदाचिद्विनश्यति । तथा 'अंतवं' अन्तोऽस्यास्तीति अन्तवान् “सप्तद्वीपा वसुन्धरे"ति, इतो नाधिको न न्यूनः, स च तादृक्परिमाणो नित्यः, इत्येवं 'धीरः' कश्चित्साहसिको अन्यथा प्ररूपणाव्यासादिरिवातिपश्यति [इव ] अतिपश्यति । तदेवम्भूतमनेकभेदभिन्नं लोकवादं निशामयेदिति गाथार्थः ॥ ६॥ किनअपरिमाणं वियाणाइ, इहमेगेसिमाहियं । सवत्थ सपरिमाणं, इति धीरोऽतिपासई ॥७॥
व्याख्या-यस्य वस्तुनः क्षेत्रतः कालतश्च 'परिमाणं' इयत्ता न विद्यते तदपरिमाणं, एके वादिनो वदन्ति-अस्माकं तीर्थकुदपरिमाणं जानाति, परं न सर्वज्ञः, इह जगति सर्वज्ञः कोऽपि नास्ति, एकेषा-सर्वज्ञापहववादिनामिदमाख्यातं-इदं