SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ कमलघवः स्वयं यानपात्रकल्पाः संसारमहोदधेर्जन्तूत्तारणसमस्तान् , भिक्षुः शरणं [परि]बजेद्-गच्छेदित्यर्थः ॥३॥ . कथं पुनस्तेन अपरिग्रहेण अनारम्मेण च वर्तनीयमित्येतद्दर्शयितुमाह कडेसु घासमेसेज्जा, विऊ दत्तेसणं चरे। अगिद्धो विप्पमुक्को अ, ओमाणं परिवजए ॥ ४॥ ___ व्याख्या-गृहस्थैः स्वार्थ निष्पादिता ओदनादयस्ते कृता उच्यन्ते, तेषु 'कृतेषु' परकृतपरनिष्ठितेषु षोडशोद्गमदोषपरिहारेण यो ग्रास-आहारस्तमेषये-न्मृगयेत्-याचेत | तथा 'विद्वान् ' संयमकरणैकनिपुणः । निःश्रेयसबुख्या दत्तमित्यनेन षोडशोत्पादना दोषाः परिहता द्रष्टव्याः। एवंविधे आहारे स भिक्षुश्चरे-दनुतिष्ठेदित्यनेन दशैषणादोषाः परिगृहीता इति मन्तव्यम् । ' अगृद्धो' रागद्वेषरहितो मोजने, अनेन पञ्च प्रासैषणादोषा निरस्ता मन्तव्याः । तथा विप्रमुक्तो रागादिभिः परेषामपमान + अधिसहेतेति, एवंविधो भिक्षुर्मवतीति गाथार्थः ॥४॥ इदानीं परवादिमतमेवोद्देशार्थाधिकाराभिहितं, तद्दर्शयन्नाहलोगवायं निसामज्जा, इह मेगेसिमाहियं । विवरीयपन्नसंभूयं, अन्नहिं बुईयाणुयं ॥ ५॥ ___ व्याख्या-लोकानां पाषण्डिकानां पौराणिकानां वा वादो लोकवादः, यथा स्वमभिप्रायेण यो यस्याम्युपगमस्तं निशामये-च्छृणुया-जानीयादित्यर्थः । इहा-स्मिन्संसारे 'एकेषां' केषाञ्चिदिदमाख्यात-मयमभ्युपगमा, तदाख्यातं-कीदृशं ? + -परावमदर्शित्वं परिवर्जयेत्-परित्यजेत् , न ज्ञानमदं तपोमदं च कुर्यादिति भावः।' इति बृहद्वृत्तिः ।
SR No.090484
Book TitleSutrakrutangsutra Dipika
Original Sutra AuthorHarshkulgani
Author
PublisherZZZ Unknown
Publication Year
Total Pages413
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & agam_sutrakritang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy