________________
तं च भिक्खू परिन्नाय, विजं तेसु ण मुच्छए । अणुक्कसे अप्पलीणे, मज्झेण मुणि जावए ॥२॥ ___ व्याख्या-'भिक्षुः ' साधुस्तत्परिझाय-ज्ञात्वा, किं ज्ञात्वा ? यथैते दर्शनिनो मिथ्यादृशो-विवेकशून्या नात्मने न परम हिताय भवन्ति इति भिक्षु त्वा विद्वाँस्तेषु-कुतीर्थिकेषु न मूर्च्छये-म सङ्गतिं कुर्यात् , किं पुनः कर्त्तव्यं ? 'अणुक्कसे' ति अनत्कर्षवान-उत्सेकरहितः । अप्रलीनः ' कुतीर्थिकेषु असम्बद्धो मुनिर्जगत्रयवेदी मध्यस्थवृत्त्या रागद्वेषरहित आत्मा यापयितव्यः, आत्मप्रशंसा परनिन्दां च परिहरन् मध्येन-रागद्वेषयोरन्तराले सश्चरेदिति गाथार्थः ॥२॥
किमेते कुतीथिकास्त्राणाय न भवन्तीति दर्शयितुमाहसपरिग्गहा य सारंभा, इह मेगेसिमाहियं । अपरिग्गहा अणारंभा, भिक्खू ताणं परिवए ॥३॥ ___ व्याख्या-ते कुतीथिकाः ' सपरिग्रहाः' शरीरोपकरणादौ मूर्छावन्तो जीवोपमर्दका रिण औदेशिकभोजिन, 'च' पनः सारम्भाः-] अत एव न त्राणाय, " परिग्रहारम्भमग्ना-स्तारयेयुः १ कथं परान् । स्वयं दरिद्रो न परमीश्वरीकर्तुमीश्वरः॥१॥" इति वचनात् । तथा 'इह मेगेसिमाहियं' इह-परलोकचिन्तायां एकेषामेतदाख्यातंएतद्धाषितं, यथा-किमनया शिरस्तुण्डमुण्डनादिकया क्रियया ? परं गुरोरनुग्रहात्परमाक्षरावाप्तिस्तद्दीक्षावाप्तिर्वा [ यदि ] भवति, ततो मोक्षो भवतीत्येवं भाषमाणास्ते न त्राणाय भवन्ति । तर्हि के त्राणाय भवन्तीति दर्शयति-अपरिग्रहाः, धर्मोपकरणादते शरीरोपमोगाय न स्वल्पोऽपि परिग्रहो येषां ते अपरिग्रहाः, अनारम्भा:-सावद्यारम्भरहिताः, ते चैवम्भूताः