________________
-
॥
एयाणुचिंति मेधावी, बंभचेरे ण ते वसे । पुढो पावाउया सबे, अक्खायारो सयं सयं ॥ १३ ॥
व्याख्या -' मेधावी ' प्राज्ञः एतान् वादिनोऽनुचिन्त्य एवमवधारयेत् - नैते राशित्रयवादिनो देवोप्तादिलोकवादिनश्च ब्रह्मचर्ये * तदुपलक्षिते * संयमानुष्ठाने वा वसेयुः अपिच - सर्वेऽप्येते प्रावादुकाः स्वीयं स्वीयं दर्शनं स्वदर्शनानुरागात् • शोभनत्वेन ' अख्यातार: ' प्रख्यापयितारः, नच तत्र विदिततत्त्वेनास्था विधेयेति गाथार्थः ॥ १३ ॥
पुनरन्यथा कृतवादिमतमुपदर्शयितुमाह
सएसए उवट्ठाणे, सिद्धिमेव न अन्नहा । अहो !! इहेव वसवन्ती, सवकामसमपि ॥ १४ ॥
व्याख्या—ते कृतवादिनः अपरेऽपि स्वकीये २ ' उपस्थाने' स्वकीयानुष्ठाने दीक्षागुरुचरणसुश्रूषादिके सिद्धिमभिहितवन्तः सर्वेऽपि वादिनः स्वकीयानुष्ठानादेव सिद्धिं प्रतिपादयन्ति यः पृच्छयते स एवमेव वक्ति-अस्मदीयानुष्ठानादेव मुक्त्यवाप्तिः, नान्येन केनापि प्रकारेण सिद्धिरवाप्यते, अहो !! 'इहेव' ति सिद्धिप्राप्तेरधस्तात्प्रागपि यावदद्यापि सिद्धिप्राप्तिर्न भवति तावदिहैव जन्मनि अस्मदीयदर्शनोक्तानुष्ठानानुभावात् 'वसवती' वशवर्त्ती - वशेन्द्रियो भवति, न हासौ सांसारिकस्वभावैरभिभूयते, सर्वकामसमर्पितो यान् यान् कामान् कामयते ते तेऽस्य सर्वे सिद्ध्यन्ति - सिद्धेर्वाक् अष्टगुणैश्वर्यलक्षणा सिद्धिर्भवति परत्र चाशेषद्वन्द्वोपरमलक्षणा सिद्धिर्भवतीति गाथार्थः ॥ १४ ॥ एतदेव दर्शयति
सिद्धाय ते अरोगा य, इहमेगेसिमाहियं । सिद्धिमेव पुरो काउं, सालए गंठिया नरा ॥ १५ ॥