________________
व्याख्या-इह एके गोशालकमतानुसारिण एवं वदन्ति, यथाऽयमात्मा मनुष्यभव एव शुद्धाचारो भूत्वा अपगता| शेषमलकलङ्काः सन्मोक्षं याति, अपापकश्च तत्र भवति, इदं एकेषां आख्यातं, इयं वाचोयुक्तिरेकेषां वादिनामिति भावः ।।
एवमयमात्मा शुद्धत्व-अकर्मकत्वराशिद्वयावस्थो भूत्वा क्रीडया प्रद्वेषेण वा स तत्र मोक्षावस्थ एव 'अपराध्यति' रजसा श्लिष्यते, | किमुक्तं भवति ? तस्य स्वशासनपूजामुपलभ्य अन्यशासनपराभवेन च 'क्रीडा' प्रमोदः सञ्जायते, स्वशासनतिरस्कारदर्शनेन प्रद्वेषस्ततः शनैः शनैः रजसा मलिनी भवति, मलीमसश्च कर्मगौरवाद्भूयः संसारे अवतरति, तदा तृतीयराश्यवस्थो भवति । पूर्व मनुष्यभव एव शुद्ध इत्येकाऽवस्था, तदनु मोक्षेऽकर्मक इति द्वितीयावस्था, पुनः स्वशासनतिरस्कारदर्शनाद्वेषण संसारेऽवतरति इयं तृतीयावस्था इति गाथार्थः ॥ ११ ॥ किश्चइह संवुडे मुणी जाए, पच्छा होइ अपावए । वियडंबु जहा भुजो, नीरयं सरयं तहा ॥ १२ ॥
व्याख्या-'इह' मनुष्य भव एव प्रव्रज्यामभ्युपेत्य संवृतात्मा-यमनियमरतो जातः, पश्चादपापो भवति-अपगताशेषमलकलो जायते, ततो मुक्तावस्थो भवति, ततः पुनरपि स्वशासनपूजादर्शनानिकारोपलब्धेश्च रागद्वेषोदयात्कलुषितान्तरात्मा विकटाम्बुव-दुदकवन्नीरजस्कं [सत् ] वातोद्धृतरेणुसम्पृक्तं 'सरजस्कं' मलिनं भवति, एवमात्माऽपि पूर्व नरभवे शुद्धः, मोक्षे अपापको-कर्मा, तदनु शासन[पूजा]तिरस्कारदर्शनेन रागद्वेषोदयाद्भवावतरणेन सरजा, एवं राशित्रयावस्थो भवत्यात्मेति गाथार्थः ॥ १२॥ अधुनैतन्मतं षयितुमाह