________________
. न सम्यग्विवेचयन्ति यथाऽयं लोको द्रव्यार्थतया न विनाशी निर्मूलतः कदाचन, न चायमादित आरभ्य केनापि कृत इति शाश्वतोऽयं लोकः अनाद्यपर्यवसानोऽयं लोक इत्यादिपरमार्थ न विदन्ति, ततो अविमृश्य भाषिण इति गाथार्थः ॥ ९ ॥ अथ तेषामज्ञानफलोपदर्शनायाह -
अमणुन्नसमुप्पायं, दुक्खमेव विजाणिया । समुप्पायमजाणंता, किह नाहिंति ? संवरे ॥ १० ॥
व्याख्या–दुःखं अमनोज्ञसमुत्पादं - अमनोज्ञानुष्ठानादनाचारादुःखमुत्पद्यते, एतावता अमनोज्ञसमुत्पादं दुःखं ' विजानीयात् ' अवगच्छेत्प्राज्ञः । एतदुक्तं भवति-स्वकृतादसदनुष्ठानादेव दुःखस्योद्भवो भवति, नान्यस्मादित्येवं व्यवस्थिते एते. [ अनन्तरोक्त ] वादिनोऽसदनुष्ठानोद्भवस्य दुःखस्य समुत्पादं अजानानाः सन्त ईश्वरादेव दुःखोत्पादमिच्छन्ति, ते हि वराका ईश्ववादिन ईश्वरकृतमेव दुःखं प्रतिपादयन्ति ते चैवमिच्छन्तः कथं दुःखस्य संवरं - दुःखप्रतिघातहेतुं ज्ञास्यन्ति ? कारणोच्छेदे कार्योच्छेदः, यथा - रोगोत्पत्तिनिदानं ज्ञात्वा तत्प्रतीकाराय यत्नो विधीयते, रोगनिदानमन्यत्तत्प्रतीकारश्चान्य एव विधीयते, कथं तदुपशमः स्यात् १, तथैव ते वादिनोऽपि दुःखनिदानमेव न जानन्ति तच्चाजानानाः कथं ते दुःखोच्छेदाय यतिष्यन्ते । यत्नवन्तोऽपि च न दुःखोच्छेदनमवाप्स्यन्ति, अपितु संसारारण्ये पर्यटन्तोऽनन्तमपि कालं संस्थास्यन्तीति गाथार्थः ॥ १० ॥
साम्प्रतं प्रकारान्तरेण कृतवादिमतमुपन्यस्यन्नाह -
सुद्धे अपावए आया, इद्द मेगेसिमाहियं । पुणो किड्डापदोसेणं, सो तत्थ अवरज्झइ ॥ ११ ॥