________________
: प्रियते, ततो लोकोऽयमशाश्वतः अनित्यो विनाशीति च गाथार्थः ॥ ७ ॥ अपिच
माहा समणा एगे, आह अंडकडे जगे । असो तत्तमकासी य, अजाणता मुसं वदे ॥ ८ ॥
व्याख्या - एके ब्राह्मणाः 'श्रमणा' त्रिदण्डिप्रभृतयः एवमाहु-रेवमुक्तवन्तः, यथा - अण्डकृतं जगत् - अण्डाजातमित्यर्थः यदा न किञ्चिदपि वस्त्वासीत्, पदार्थशून्योऽयं संसारस्तदा ब्रह्माऽप्स्वण्डमसृजत, तस्माच्च क्रमेण वृद्धाद् द्विधाभावमुपगतादूर्द्धा विभागोऽभूत्, तन्मध्ये च सर्वाः प्रकृतयः पृथिव्यप्तेजोवाय्वाकाश समुद्र सरित्पर्वतम कराकरनिवेशादिसंस्थितिरभूदिति, एवम्भूते चास्मिञ्जगति 'असौ' ब्रह्मा, तस्य भावस्तच्चं - पदार्थजातं तदण्डादिप्रक्रमेण अकार्षीत् ते च ब्राह्मणादयः परमार्थम जानाना [एवं] मृषा वदन्ति - अन्यथाऽवस्थितमन्यथा प्ररूपयन्तीति गाथार्थः ॥ ८ ॥
अथ देवोप्तादिजगद्वादिनामुत्तरदानायाह
सहि परियारहिं, लोयं बूया कडेति य । तत्तं ते ण विजाणंति, ण विणासी कयाइवि ॥ ९ ॥
व्याख्या– स्वकीयैः स्वकीयैः पर्यायैरभिप्रायैर्युक्तिविशेषैश्यं लोकः कृत इत्यब्रुवन्नभिहितवन्तः, तद्यथा - देवोप्तो ब्रह्मोत ईश्वरकृतः प्रधानादिनिष्पादितः स्वयम्भुवा निष्पादितः तथाऽण्डजश्चायं लोक इत्यादि स्वकीयाभिर्युक्तिभिः प्रतिपादयन्ति, यथाsस्मदुक्तमेव सत्यं, नान्यदिति । ते चैवंवादिनः सर्वेऽपि 'तत्त्वं' परमार्थ - यथावस्थितलोकस्वभावं न [वि]जानन्ति -
+ " न च तत्त्वतो जीवस्य मृतिरस्ति, तेन मायैषा, ” इति ह.