SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ - - MIN| तदेवाह-अयं लोको देवोतः-कर्षकेणेव बीजवपनं कृत्वा देवेन निष्पादितोऽयं लोक इत्यर्थः, 'देवगुप्तो' देवरक्षितो वा, IN | इत्येवमादिकं सर्वमज्ञानमिति । तथा ब्रह्मणा उप्तो ब्रह्मोप्त इत्ययं लोक इत्यपरे, तेषामयमभ्युपगमः-'ब्रह्मा' जगत्पितामहः, | स चैक एवादानासोद् , तेन न प्रजापतयः सृष्टास्तैश्च क्रमेणैतत्सकलं जगदिति माथार्थः ॥ ५॥ ईसरेण कडे लोए, पहाणाइ तहावरे । जीवाजीवसमाउत्ते, सुहदुक्खसमन्निए ॥ ६ ॥ व्याख्या-एके वदन्ति ईश्वरकृतोऽयं लोका, तथा प्रधानादिकृतो लोकः, [प्रधानं-]सत्त्वरजस्तमसां साम्यावस्थाप्रकृतिस्तस्कृतोऽयं लोकः, तथा अन्ये स्वभावनिष्पन्नोऽयं लोक इति, यथा-कण्टकास्तीक्ष्णाः, चित्रिताः मयूराः, ईक्षवो मधुराः, निम्बः कटुका, ल्हसणो दुर्गन्धः, पद्मं सुगन्धं, एते पदार्था यथा स्वभावनिष्पनास्तथा लोकोऽपि स्वभावादेव, न केनापि कृतः। परं कथम्भूतोऽयं लोकः जीवाजीवस[मायुक्तः]मन्वितः, तथा सुखमानन्दरूपं दुःखं त्वसातोदयरूपं, ताभ्यां | समन्वितोऽयं लोक इति गाथार्थः ॥ ६ ॥ किश्च सयंभुणा कडे लोए, इति वुत्तं महेसिणा। मारेण संथुया माया, तेण लोए असासते ॥७॥ __व्याख्या-एके वदन्ति स्वयम्भु-विष्णुरन्यो वा, स च एक एवादावभन्न चैकाकी रमते, द्वितीयमिष्टवान् , ततस्त-17 चिन्तानन्तरं द्वितीया शक्तिः समुत्पन्ना, तदनन्तरं जगत्सृष्टिरभूदित्येवं महर्षिणोक्तं-कथितं, ततः स्वयम्भुवा लोकं निष्पाद्य अति सम्भारमयाद्यमाख्यो मारयतीति मारो व्यधायि, तेन मारेण माया [ संस्तुता-] कृता, तया मायया लोकोऽयं
SR No.090484
Book TitleSutrakrutangsutra Dipika
Original Sutra AuthorHarshkulgani
Author
PublisherZZZ Unknown
Publication Year
Total Pages413
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & agam_sutrakritang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy