SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ प्रकारे अकुशलाः संसारे दु:खिनो भवन्तीत्यत्र दृष्टान्तमाह-यथा मत्स्याः 'वैशालिकाः + विशालजात्युद्भवाः-वृहच्छरीरा उदकस्याम्यागमे-समुद्रवेलायां सत्यांx, पुनर्वेलापगमे तस्मिन्नुदके शुष्क तस्मिन्नेव धुनीमुखे विलग्नाः अवसीदन्ति, आमिषगृध्नुभिर्दकैः कदैश्च पक्षिमिः अन्यैश्च मांसवसार्थिभिर्मत्स्यबन्धादिभिर्जीवन्त एव विलुप्यमाना महान्तं दुःखसमुद्: घातमनुभवन्तो अशरणा 'घातं ' विनाशं यान्ति, त्राणाभावाद्विनाशमेव यान्तीति श्लोकद्वयार्थः ॥२-३ ॥ एवं तु समणा एगे, वहमाणसुहेसिणो। मच्छा वेसालिया चेव, घातमेसतिऽणंतसो ॥४॥ ___ व्याख्या-यथा मत्स्यास्तथा श्रमणाः शाक्यपाशुपतादयः स्वयूथ्या वा वर्तमानमेव सुखं आधाकर्मोपमोगजनितKI मेषितुं शीलं येषां ते वर्तमानसुखैषिणो वैशालिका मत्स्या इव 'घातं' विनाशमेष्यन्त्यनन्तशोऽरषदृषटीन्यायेन भ्योभ्यः संसारोदरे निमजनोन्मजनं कुर्वाणा, न ते संसारपारगामिनो भविष्यन्तीत्यर्थः ॥ ४॥ साम्प्रतमपराज्ञानिमतोपदर्शनायाहइणमन्नं तु अन्नाणं, इहमेगास आहियं । देवउत्ते अयं लोए, बंभउत्ते त्ति आवरे ॥५॥ व्याख्या-इदमन्यदज्ञान-मोहविजृम्भितं, इहास्मिल्लोके एकेषां, न सर्वेषां, आख्यात-मभिप्रायः । किमाख्यातमिति + “ विशाल:-समुद्रस्तत्र भवा विशालाख्यजातिभवा वा विशाला एव वा वैशालिका-बृहच्छरीरा" इति हर्षकुलगणिः । x"उदकस्य प्रभावेण नदीमुखमागताः" इति हर्षकुलगणिः ।
SR No.090484
Book TitleSutrakrutangsutra Dipika
Original Sutra AuthorHarshkulgani
Author
PublisherZZZ Unknown
Publication Year
Total Pages413
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & agam_sutrakritang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy