________________
व्याख्या-ये हि कुतश्चित्कारणान्मनसा 'प्रादुःप्यन्ति' प्रद्वेषमुपयान्ति तेषां वधपरिणतानां चित्तं शुद्धं न विद्यते, तदेवं यत्रभिहितं-यथा केवलमनःप्रद्वेषेऽप्यनवयं-कर्मोपचयाभावः, तत्तेषामतथ्य-असत्यं-मृषा, यतो मनसोऽशुद्धत्वात् , न ते संवृतचारिणः-न ते संवरे प्रवर्तन्ते इति । यतः कर्मबन्धे मुख्य कारणं मन एव, यदि मनोव्यापारे सति न बन्धस्तयन्यत्कर्मा बन्धकारणं किमस्तीति भावः ।। २९ ॥ अथ क्रियावादिनामनर्थपरम्परां दर्शयितुमाहइच्चेयाहिं दिट्ठीहिं, सातागारवणिस्सिया । सरणं ति मन्नमाणा, सेवंती पावगं जणा ॥ ३० ॥
व्याख्या-इत्येताभिः पूर्वोक्ताभिदृष्टिभिः-प्ररूपणाभिस्ते वादिनः सातगौरवनिश्रिताः-सुखशीलतायामासक्ता यत्किकश्चनकारिणो यथालब्धमोजिनश्च संसारोद्धरणार्थमस्मदीयं दर्शनं शरणमिव मन्यमानाः विपरीतानुष्ठानिन 'अवयं ' पापमेव
कुर्वन्ति व्रतिनोऽपि सन्तः जना इव जना:-प्राकृतपुरुषसदृशाः पामरा इति गाथार्थः ॥ ३०॥ ___अस्यैवार्थस्योपदर्शकं दृष्टान्तमाह| जहा अस्साविणी नावं, जाइअंधो दुरूहिया । इच्छई पारमागंतुं, अंतरा य विसीयती ॥ ३१ ॥
व्याख्या-यथा अस्राविणी सच्छिद्रां नावं जात्यन्धः समारुह्य 'पारं' तटमागन्तुं-प्राप्तुमिच्छत्यसौ, तस्याश्चास्राविकाणीत्वेनोदकप्लुतत्वादन्तराले-जलमध्ये एव विषीदति-वारिणि निमजति इति गाथार्थः ॥ ३१ ॥
साम्प्रतं दान्तिकयोजनार्थमाह--
RSS