________________
| पचयो नान्यत्रेति दर्शयितुमाह-. एए उ तउ आयाणा, जेहिं कीरइ पावगं । एवं भावविसोहीए, निवाणमभिगच्छति ॥ २७ ॥ ___ व्याख्या-एतानि पूर्वोक्तानि त्रीण्येव आदानानि, यैर्दुष्टाध्यवसायसव्यपेक्षैः पापकर्म क्रियते, तथा यत्र पुनः प्राणिपाते त्रीण्यमनि न प्रवर्तन्ते भावविशुद्धिश्च भवति, एतावता रागद्वेषौ विना यद्यपि मनसा कायेन वा प्राणिपातः स्यात्तथापि भावविशुख्या कर्मबन्धो न भवति, कर्मवन्धाभावाच्च निर्वाणमिति गाथार्थः ॥२७॥ __मावविशुद्ध्या कर्मवन्धो न भवतीत्यत्रार्थे दृष्टान्तमाहपुत्तं पिया समारब्भ, आहारेज असंजए । भुंजमाणे य मेधावी, कम्मुणा णोवलिप्पई ॥ २८ ॥
व्याख्या-कश्चित्पिता पुत्रं ' समारभ्य' व्यापाद्य कस्याश्चिदवस्थायां x अस्तद्विष्टः 'आहारेज 'त्ति आहारं करोति 'असंयतो' गृहस्थः 'मेधावी ' संयतोऽपि तमाहारं भुञ्जानः कर्मणा नोपलिप्यते, एतावता ' असंयतो' गृहस्थो मिक्षुर्वा शुद्धाशयः पिशितास्यपि कर्मणा नोपलिप्यते, अत्र यथा पितुः पुत्रं व्यापादयतस्तत्रारक्तद्विष्टमनसः कर्मवन्धो न स्यात्तथाऽ. न्यस्याप्यरक्तद्विष्टान्तःकरणस्य प्राणिवधे सत्यपि न कर्मबन्ध इति गाथार्थः ।। २८॥ साम्प्रतमेतरणायाह-- मणसा जे पउस्संति, चित्तं तोस ण विजति । अणवजमतहं तेसिं, ण ते संवुडचारिणो ॥ २९॥
x “ तथाविधायामापदि तदुद्धरणार्थ " इति बृहवृत्तौ ।