________________
स्वशान्तिकं तदपि न कर्मबन्धाय, यथा स्वमे भुजिक्रियायां न तृप्तिस्तथा कर्मबन्धोऽपि न भवतीत्यर्थः, तर्हि कथं कर्मः। बन्धः? उच्यते-" प्राणी प्राणिज्ञानं, घातकचित्तं च तद्गता चेष्टा । प्राणैश्च विप्रयोगे:, पञ्चभिरापयते हिंसा ॥१॥" अत्र पश्चानां पदानां द्वात्रिंशद्भङ्गा भवन्ति, तत्र प्रथमभङ्गे हिंसकोऽपरेवेकत्रिंशद्भङ्गकेषु अहिंसक इति । किमेकान्तेन परिझोपचितादिना कर्मोपचयो न भवत्येव ? भवति काचिदव्यक्तमात्रेति दर्शयितुं श्लोकपश्चार्द्धमाह-'पुट्ठो'ति, तेन केवलमनोव्यापाररूपपरिज्ञोपचितेन केवलकायक्रियोत्थेन वा अविज्ञोपचितेन ईर्यापथेन स्वमान्तिकेन च चतुर्विधेनापि | कर्मणा 'स्पृष्टः' ईषच्छुप्तः सन् कर्मस्पर्शमात्रेणासावनुभवति, न तस्याधिको विपाकोऽस्ति, कुडयापतितसिकतामुष्टिवत्स्पर्शानन्तरमेव परिशटतीत्यर्थः । यतस्तत्सावा, खुरवधारणे, अव्यक्तं-अस्पष्टमिति गाथार्थः ॥ २५॥ _____कथं तर्हि कर्मोपचयो भवतीत्याह
संतिमे तउ आयाणा, जेहिं कीरइ पावगं । आभिकम्मा य पेसा य, मणसा अणुजाणिया ॥ २६ ॥ ___ व्याख्या-'सन्ति' विद्यन्ते त्रीणि 'आदानानि' कर्मोपादानकारणानि, पैरादानः क्रियते पापं, तानि चामनि| 'अभिकम्मा यत्ति 'अभिक्रम्य' आक्रम्य वध्यं प्राणिनं तद्घाताभिमुखं मनो विधाय यत्र स्वत एव प्राणी व्यापाबते,
तदेकं कर्मादानं १। तथाऽपरं प्राणिघाताय प्रेष्यं समादिश्य यत्प्राणिव्यापादनं तद्वितीयं कर्मादानं २। तथा परं व्यापादयन्तं | मनसा अनुजानीत इत्येतत्तृतीयं कर्मादानं ३ । ॥ २६ ॥
तदेवं यत्र स्वयं कृतकारितानुमतयः प्राणिपाते क्रियमाणे विद्यन्ते क्लिष्टाध्यवसायस्य प्राणातिपातश्च, तत्रैव कर्मो