________________
अथ चतुर्विधभिक्षुसमयः कर्मचयं न गच्छति तदधिकृत्याह
अहावरं पुरखायं किरियावादिदरिसणं । कम्मचिंतापणट्ठाणं, संसारस्स पवडणं ॥ २४ ॥
व्याख्या– अथाज्ञानवादमतानन्तरं अन्यत्पुरा - पूर्वमाख्यातं, किं तत् १ क्रियावादिदर्शनं कर्मणि - ज्ञानावरणादिके ' चिन्ता' पर्यालोचनं, ततः ' प्रणष्टा' अपगताः - कर्मचिन्ताप्रणष्टाः 'संसारस्स पवडूणं' संसारवर्द्धनं । ते ह्येवं प्रतिपद्यमानाः संसारस्य वृद्धिमेव कुर्वन्ति, नोच्छेदमिति गाथार्थः ॥ २४ ॥
यथा च ते कर्मचिन्तातो नष्टास्तथा दर्शयितुमाह
जाणं काणणारी, अबुहो जं च हिंसति । पुट्ठो वेदेइ परं, अवियत्तं खु सावज्जं ॥ २५ ॥
व्याख्या - यो हि जानन् प्राणिनो हिनस्ति कायेन अनाकुट्टी, किमुक्तं भवति १ यो हि कोपादेर्निमित्तात्केवलं मनोव्यापारमात्रेण प्राणिनो व्यापादयति, न च कायेन प्राण्यवयवानां छेदनमेदनादिके व्यापारे वर्त्तते, न तस्यावद्यं तस्य कर्मोपचयो न भवतीत्यर्थः, तथा अबुधो ऽजानानः कायव्यापारेण यं च हिनस्ति प्राणिनं तत्रापि मनोव्यापाराभावान्न कर्मोपचय इति । अत्र पुरा यदुक्तं चतुर्विधं कर्म नोपचयति भिक्षुसमय इति, तत्र परिज्ञोपचितं अविज्ञोपचिताख्यं भेदद्वयं साक्षादुपात्तं, शेषं स्वीर्यापथस्वप्रान्तिकमेदद्वयं च शब्दादुपात्तं, तत्रेर्यापथं नाम पथि गच्छतो यथा कथञ्चिदनभिसन्धेर्य - प्राणिव्यापादनं भवति न तत्र कर्मबन्धः, [ तथा 'स्वमान्तिक 'मिति स्वप्न एव लोकोक्त्या स्वमान्तः, स विद्यते यस्य तत् ]