SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ काहिं 'ति आत्मीयैर्वितकैः - स्वमनोरुचिविकल्पैरेवमभ्युपगतवन्तो, यथाऽस्मदीय एव मार्गः श्रेयान् - अज्ञानमेव श्रेयः, अयमेव मार्ग : ' अंजू ' इति निर्दोषत्वात्स्पष्टः, परवादिभिस्तिरस्कर्तुं न शक्यते, ऋजुर्वा प्रगुण:- अकुटिल:, यथावस्थितार्था - भिघायित्वात् । किमित्येवंविधा ? इति हि यस्मात्ते 'दुर्मतयो ' विपर्यस्तमतय इति गाथार्थः ॥ २१ ॥ एवमज्ञानवादिनां ज्ञानवादी दोषदर्शनायाह एवं तकाइ साहिंता, धम्माधम्मे अकोविया । दुक्खं ते नाइतुहंति, सउणी पंजरं जहा ॥ २२ ॥ व्याख्या—एवं त[र्कया]र्काभिः- स्वमनोरुचिकृतविक[ल्पनया ] स्पै: ' साधयन्तः प्रतिपादयन्तो धर्मे क्षान्त्यादिके दशविधे अधर्मे च जीवोपमर्दापादिते पापे ' अकोविदाः' अनिपुणाः ' दुःखं ' दुःखकारणभूतं कर्म त्रोटयितुं नालं, कर्म न त्रोटयन्तीति, यथा पञ्जरस्थः ' शकुनिः ' पक्षी पञ्जरं त्रोटयितुं पञ्जरबन्धनादात्मानं मोचयितुं नालं, एवमसावप्यज्ञानवादी संसारपञ्जरादात्मानं मोचयितुं नालमिति गाथार्थः || २२ || अथ सामान्येनैकान्तवादिमतदूषणायाह सयं सयं पसंसंता, गरहंता परं वयं । जे उ तत्थ विउस्संति, संसारं ते विउस्सिया ॥ २३ ॥ व्याख्या - स्वकीयं स्वकीयं - आत्मीयात्मीयं दर्शनं प्रशंसन्तः परकीयां वाचं 'गर्हन्तो ' निदन्तः (ये तु) एकान्तवादिनो ' विद्वस्यन्ते' विद्वांस इवाचरन्ति, ततः संसारं विविधमनेकप्रकारं उत्प्राबल्येन 'श्रिताः' सम्बद्धाः, तत्र वा संसारे 'उषिताः ' स्थिताः, संसारान्तर्वर्त्तिनः सर्वदा भवन्तीत्यर्थः ॥ २३ ॥
SR No.090484
Book TitleSutrakrutangsutra Dipika
Original Sutra AuthorHarshkulgani
Author
PublisherZZZ Unknown
Publication Year
Total Pages413
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & agam_sutrakritang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy