SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ - म्याख्या-ये पुनरेवं प्ररूपयन्ति-अज्ञानमेव श्रेयस्ते अज्ञानवादिनस्तेषामयमुपदेशः-यावान् [ यावान् ] ज्ञानाभ्युपगमस्तावत्तावद्गुरुतरदोषसम्भवः, तथाहि-योऽवगच्छन् पादेन कस्यचिच्छिरः स्पृशति तस्य महानपराधो भवति, यस्त्वनाभोगेन स्पृशति तस्मै न कश्चिदपराध्यति, इत्येवं चाज्ञानमेव प्राधान्यभावमनुभवति, न तु ज्ञानं । अथ ये अज्ञानवादिनस्तेषां या 'वीमंसा' ज्ञातुमिच्छा सा ज्ञानविषये न प्रभवति, न निश्चयेन यच्छति-नावतरति । कोऽयमज्ञानवादिनां विमर्शः १ तथाहिकिमेतज्ज्ञानं सत्यं ? उतासत्यमिति ? किञ्च-अज्ञानमेव श्रेयो, यथा यथा च ज्ञानातिशयस्तथा तथा दोषाधिक्यं, सोऽयमेवम्भूतो विमर्शस्तेषां न बुध्य[ते], एवम्भूतस्य पर्यालोचनस्य ज्ञानरूपत्वादिति । तथा ते अज्ञानवादिनः आत्मनोऽपि 'परं' प्रधानमज्ञानवादमुपदेष्टुं 'नालं' न समर्थाः, अज्ञानपक्षाश्रयणादिति । कुतः पुनस्ते व यमज्ञाः सन्तोऽन्येषां शिष्यत्वेनोपगतानां अज्ञानवादमुपदेष्टु-समर्था भवेयुरिति गाथार्थः ॥ १७॥ ___ तदेवं ते तपस्विनो अज्ञानिनः आत्मनः परेषां च शासने कर्तव्ये यथा न समर्थास्तथा दृष्टान्तेन दर्शयतिवणे मूढे जहा जंतू, मूढे नेयाणुगामिए । दोवि एए अकोविया, तिव्वं सोयं नियच्छई ॥१८॥ ___ व्याख्या-यथा वने कश्चिन्मूढो जन्तुः-दिक्परिज्ञाने असमर्थः कमपि मूढमेवाग्रेसरं विधाय तमनुगच्छति ततस्तौ द्वावपि १ सम्यग्मार्यानभिज्ञौ तीव्र भोतो-गहनं निपच्छत-निश्चयेन गच्छतः, अज्ञानावृतत्वात्तौ द्वावपि कापि गहनं पततः, एवमज्ञानN वादिनः आत्मीयमेव शोभनं मागं मन्यमानाः परकीयं चाशोभनं जानन्तः स्वयं मूढाः परानपि मोहयन्तीति गाथार्थः ॥१८॥ अस्मिन्नेवार्थे दृष्टान्तान्तरमाह
SR No.090484
Book TitleSutrakrutangsutra Dipika
Original Sutra AuthorHarshkulgani
Author
PublisherZZZ Unknown
Publication Year
Total Pages413
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & agam_sutrakritang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy