SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ सर्वस्मिन्नपि लोके ये प्राणिनो न ते किश्चन जानन्ति, यदपि गुरुपारम्पर्यागतं तेषां किञ्चन ज्ञानमस्ति तदपि छिनमूल| त्वादवितथं न भवतीति गाथार्थः ॥ १४ ॥ एतदेव दृष्टान्तद्वारेण दर्शयितुमाहमिलक्खू अमिलक्खुस्स, जहा वुत्ताणुभासए। ण हेउंसे विजाणाइ, भासिअंतऽणुभासए ॥१५॥ ___व्याख्या-यथा कश्चिन्म्लेच्छ: आर्यभाषां न वेत्ति, परमम्लेच्छस्य-आर्यस्य भाषितं तदनुभाषते, परं स म्लेच्छः आर्यस्य तदभिप्रायं न वेत्ति, यथाऽनेनानया विवक्षया भाषितं इति न सम्यग्जानाति, न च ' हेतुं' निमित्तं निश्चयेनासौ | म्लेच्छस्तद्भाषितस्य जानाति, केवलं परमार्थशून्यं तद्भाषितमेवानुभाषते इति गाथार्थः ॥ १५ ॥ एवं दृष्टान्तेन दान्तिकं योजयति| एवमन्नाणिया णाणं, वयंतावि सयं सयं । निच्छयत्थं न याणंति, मिलक्खू व अबोहिया ॥ १६ ॥ ___ व्याख्या-एवमिति यथा म्लेच्छ। अम्लेच्छस्य परमार्थमजानानः केवलं तद्भाषितमनुभाषते, एवमज्ञानिकाः सम्यग्ज्ञानरहिताः श्रमणाः ब्राह्मणाः स्वीयं स्वीयं ज्ञानं प्रमाणत्वेन वदन्तोऽपि निश्चयार्थ न जानन्ति, निश्चयार्थमजानानाः म्लेच्छवदः । परोक्तमनुभाषते 'अबोधिका' बोधिरहिता [अतोऽज्ञानमेव श्रेयः४] इति गाथार्थः ॥१६॥ अथामीषा(दोष+) दर्शनायाहअन्नाणियाण वीमंसा, नाणेण विणियच्छति । अप्पणो य परं नालं, कत्तो अन्नाणुभासणं? ॥१७॥ - बृहद्वृत्तौ । + एतचिन्हान्तर्गतः पाठोऽस्मत्परिवर्द्धितः ।
SR No.090484
Book TitleSutrakrutangsutra Dipika
Original Sutra AuthorHarshkulgani
Author
PublisherZZZ Unknown
Publication Year
Total Pages413
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & agam_sutrakritang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy