________________
-MI भवितुमलं, यतः-" पढमं नाणं तओ दया, एवं चिट्ठ सव्वसंजए । अन्नाणी कि काही , किंवा नाही? य
छेयपावगं ॥१॥" इति गाथार्थः ॥ १२ ॥ पुनरप्यज्ञानिनां दोषदर्शनायाहजे एयं नाभिजाणंति, मिच्छट्टिी अणारिया। मिगा वा पासबद्धा ते, घायमसंतिऽणंतसो ॥१३॥ | ___ व्याख्या-ये अज्ञानिनस्ते कर्मक्षपणोपायं न जानन्ति, आत्मीयासद्हग्रस्ताः मिथ्यादृष्टयः अनार्यास्ते मृगा इव पाशबद्धा 'घातं ' विनाशमेष्यन्ति अनन्तशो जन्मजरामरणान्यनुमविष्यन्ति, मृगस्त्वेकवारमेव म्रियते, अज्ञानवादिनस्त्वनन्तैमरणैर्मरिष्यन्तीति गाथार्थः ॥ १३॥
ये पुनरज्ञानिनः स्वकदाग्रहं न त्यजन्ति तानुद्दिश्य विशेषमाहमाहणा समणा एगे, सबे नाणं सयं वदे। सबे लोगेऽवि जे पाणा, न ते जाणंति किंचण ॥ १४॥
व्याख्या-'एके' केचन ब्राह्मणाः ' श्रमणाः ' परिव्राजकाः आत्मीयात्मीयं ज्ञानं वर्णयन्ति, परं तानि ज्ञानानि । परस्परविरोधेन प्रवृत्तवान्न सत्यानि, तस्मादज्ञानमेव श्रेयः । अज्ञानवादिन एवं प्ररूपयन्ति-वादिनः सर्वेऽपि स्वस्वमतानुरागिणः सन्तः पृथक्पृथग्नवीनामेव प्ररूपणां कुर्वन्ति, ततश्चास्मादृशां मनसि सन्देहो जायते-का सत्या का चासत्येति, ततश्चाज्ञाने सति नवीनां प्ररूपणां कत्तुं न शक्यते लोकानां मनसि शंसयोऽपि नोत्पद्यते, अतः अज्ञानमेव चारु,
१ प्रथमं ज्ञानं ततो दया एवं तिष्ठति सर्वसंयतः। अज्ञानी किं करिष्यति ? किं वा ज्ञास्यति. १ छेक[श्रेयः पापकम् ।