SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ व्याख्या-एवं ते मृगा अज्ञानावृता अनर्थमनेकशःप्राप्नुवन्ति, एवमेव 'श्रमणा' केचन पाषण्डविशेषाश्रिता, एके, न सर्वे । किम्भूतास्ते ? मिथ्यादृष्टयोऽनार्याः; अज्ञानावृतत्वादसदनुष्ठायिन इति । अज्ञानित्वं च तेषां दर्शयति-'अशङ्कितानि' अशङ्कनीयानि सुधर्मानुष्ठानादीनि शङ्कन्ते, कोऽर्थः १ सुधर्मानुष्ठाने अधर्मशङ्कामानयन्ति अधर्मे च धर्मबुद्धिं कुर्वन्तीति गाथार्थः ॥१०॥ | पुनस्तेषां दर्शनिनां विपरीतमतित्वं दर्शयतिधम्मपन्नवणा जा सा, तं तु संकति मूढगा। आरंभाई ण संकेति, अवियत्ता अकोविया ॥ ११ ॥ व्याख्या-धर्मस्य क्षान्त्यादिदशविधस्य या प्ररूपणा, तत्र शङ्कन्ते-असद्धर्मप्ररूपणेयमित्येवमध्यवसन्ति, ये पुनः पापो. पादानभूताः समारम्भास्तान शङ्कन्ते, यतस्ते 'अव्यक्ताः' मुग्धा-विवेकविकलाः 'अकोविदाः' अपण्डिताः-अगीतार्था इति गाथार्थः ॥ ११॥ तथाऽज्ञानावृता यनाप्नुवन्ति तदर्शनायाहसबप्पगं विउक्स्स, सवं णूमं विहणिया। अप्पत्तियं अकम्मंसे, एयमटुं मिगे चुए ॥ १२ ॥ व्याख्या-'सर्वात्मको' लोभस्तं विधूयेति सम्बन्धः । तथा विविध उत्कर्षो-गर्वः व्युत्कर्षो-मानः, तथा 'मं 'ति माया, तां विधूय, तथा ' अप्पत्तियं 'ति क्रोध, क्रोधविधूनने मोहनीयविधूननमावेदितं, एतद्विधूनने अकाँशो भवति, | अकर्मांशश्च विशिष्टज्ञानाद्भवति, नाज्ञानात् । एनमर्थ कर्मामावलक्षणं 'मृगो'ज्ञानी 'चुए 'त्ति त्यजेद्धश्येत् , किमुक्तं भवति? | यो ज्ञानी स तु कषायचतुष्कविधूननेन अकर्माशो भवति, परं यस्त्वज्ञानी स त्वेतस्मादशिष्टः अज्ञानित्वादकाशो न
SR No.090484
Book TitleSutrakrutangsutra Dipika
Original Sutra AuthorHarshkulgani
Author
PublisherZZZ Unknown
Publication Year
Total Pages413
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & agam_sutrakritang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy