SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ । NT अनर्थबहुलमेकान्तवादमशङ्कनीयत्वेन गृह्णन्ति अज्ञानावृताः, ततस्तेषु कर्मबन्धस्थानेषु सम्पर्यटन्त इति गाथार्थः ॥ ७ ॥ ____ अथ पुनरपि प्राक्तनदृष्टान्तमधिकृत्याह अह तं पदेन नझं, अहे बज्झस्स वा वए । मुच्चेज पयपासाओ, तं तु मंदे ण देहए ॥ ८ ॥ ___ व्याख्या-अथासौ मृगस्तत् ' बज्झं 'ति ब[य] -बन्धनाकारेण व्यवस्थितं वागुरादि बज्झमित्युच्यते, तदेवम्भूतं कूटपाशादिकं बन्धनं यद्यसौ मृग उपरि प्लवेत्-तद्वन्धनस्थानमधो विमुच्य उपरि गच्छेत् तस्य वा बध्यस्याधो गच्छेत् , तत एवं क्रियमाणेऽसौ मृगः पदे पाशः पदपाशो-वागुरादिवन्धनं, तस्मान्मुच्येत, आदिग्रहणाद्वधताडनमारणादिकाः क्रिया | गृह्यन्ते, एवं सन्तं अनर्थपरिहरणोपाय' मन्दो' जडोऽज्ञानावृतो 'न देहयेत्' न पश्यतीति गाथार्थः ॥८॥ ___कूटपाशादिकं चापश्यन् यामवस्थामवामोति तां दर्शयितुमाहअहियप्पा अहिअप्पन्नाणे, विसमं तेणुवागए । स बद्धे पयपासेणं, तत्थ घातं नियच्छई ॥९॥ ___ व्याख्या-स मृगो अहितात्मा अहितप्रज्ञानः सन् 'विषमान्तेन' कूटपाशादियुक्तेन प्रदेशेन उपागत आत्मानं अनुतापयेत् , तत्र चासौ पतितो बद्धश्च तेन कूटादिना पदपाशादीननर्थबहुलानवस्थानविशेषान् प्राप्तस्तत्र च बन्धने 'घातं ' विनाशं 'नियच्छति' प्रामोति ॥ ९ ॥ एवं दृष्टान्तं प्रदर्य दान्तिकमज्ञानविपाकं दर्शयितुमाहएवं तु समणा एगे मिच्छदिट्ठी अणारिया । असंकियाइं संकंति, संकियाइं असंकिणो ॥१०॥
SR No.090484
Book TitleSutrakrutangsutra Dipika
Original Sutra AuthorHarshkulgani
Author
PublisherZZZ Unknown
Publication Year
Total Pages413
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & agam_sutrakritang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy