________________
.
पण्डितम्मन्याः वाला उच्यन्ते । किमिति बालाः १ यतस्ते किश्चित्सुखदुःखादि जन्तूनां नियतिकृतं किञ्चिदनियतित न मन्यन्ते, केवलं भवितव्यतावशान्नियतिकृतमेव मन्यन्ते, अत एव अजाणगा' अज्ञानिनो बुद्धिरहिताः, जैनास्तु किञ्चि नियतिकृतं मन्यन्ते तथा किश्चिदनियतिकतमपि पुरुषाकारकालेश्वरस्वभावकर्मादिकृतं मन्यन्ते, तत्र कश्चित्सुखदुःखादि. पुरुषाकारसाध्यमप्याश्रीयते, यतः फलं क्रियातः सम्भवति, क्रिया च पुरुषाकारायत्ता वर्तते, तथा चोक्तं-" न देवमिति सञ्चिन्त्य, त्यजेदुद्यममात्मनः । अनुचमेन कस्तैलं, तिलेभ्यः प्राप्तुमर्हति ॥१॥" किन-" उद्योगिनं पुरु. सिंहमुपैति लक्ष्मी "रिति वचनात्पुरुषकारकृतं मन्यन्ते । आईतास्तु स्याद्वादप्ररूपिणः, न नियतिवादिवदेकान्तप्ररूपिणः "कोलो सहावनियई, पुवकयं पुरिसकारणे पंच । समवाये सम्मत्तं, एगते होइ मिच्छत्तं ॥१॥" इति वचनात् । ते तु नियतिवादिन एकान्तपक्षाश्रयणान्मिथ्यादृश एवेति गाथार्थः ॥ ४ ॥ अथैषामपायदर्शनायाहएवमेगे उ पासत्था, ते भुजो विप्पगभिया। एवं उवठिया संता, ण ते दुःखविमोक्खया ॥५॥ ____ व्याख्या-एवमेके नियतिवादमाश्रिताः सर्वस्मिन्नपि वस्तुनि नियतानियते सति एके नियतमेवावश्यं माव्येव, कालेश्वरादिनिराकरणेन निर्हेतुकतया नियतिवादमाश्रितास्ते पार्श्वस्थाः, युक्तिकदम्बकादहिस्तिष्ठन्तीति पार्श्वस्थाः, परलोकक्रियातो वा पार्श्वस्थाः, ते हि परलोकसाधिका क्रियां न मन्यन्ते, नियतपक्षाश्रयणाद्यद्भाव्यं तद्भविष्यतीति वचनात्तप- | श्वरणादिक्रियासु पराङ्मुखाः, यदि वा पाश इव पाश:-कर्मवन्धनं, तच्च युक्तिविकलनियतवादप्ररूपणं, तत्र स्थिताः ।
१ काल: स्वभावो नियतिः, पूर्वकृतं पुरुषाकारः कारणानि पञ्च । समवाये सम्यक्त्वमेकान्ते भवति मिध्यात्वम् ॥१॥