SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ मसातोदयलक्षणं, असैद्धिकं [ सुखं ] सांसारिकं अथ चोभयमप्येतत्सुखं दुःखं च स्रक्चन्दनाद्युपभोगक्रियासिद्धौ भवं सुखं सैद्धिक, तथा कशाताडनाङ्कनादिक्रियासिद्धौ भवं दुःखं, तथा असैद्धिकं सुखमान्तरमानन्दरूपं आकस्मिकमनवधारितवाह्यनिमित्तं, एवं दुःखमपि ज्वरशिरोऽर्तिशूलादिरूपमङ्गोत्थमसैद्धिकमिति गाथार्थः ॥ २ ॥ यदि कस्यापि कृतं सुखदुःखादि न स्यात्तर्हि असौ सुखी असौ दुःखी इत्यादि वैचित्र्यं कुतः १ तदेव कथयतिन सयं कडं न अन्नेहिं, वेदयंति पुढो जिया । संगइयं तं तहा तेसिं, इहमेगेसिमाहियं ॥ ३ ॥ व्याख्यान स्वयं पुरुषकारेण कृतं दुःखं नाप्यन्येन केनचित्कालादिना कृतं वेदयन्त्यनुभवन्ति, पृथग् 'जीवाः ' प्राणिन इति, तर्हि कुतस्तेषां सुखदु:खाद्युदयमायाति १ अत्र नियतिवादी स्वाभिप्रायं प्रकाशयति- ' संगइयं 'ति, सङ्गतिनियतिस्तस्यां भवं साङ्गतिकं, न पुरुषकारादिकृतं सुखदुःखादि, केवलं नियतिकृते साङ्गतिकमित्युच्यते । इह 'एकेषां ' वादिनां सुखदुःखानुभववादे ' एवमाख्यातं ' एषा प्ररूपणेत्यर्थः, उक्तं च- " प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः, सोऽवश्यं भवति नृणां शुभोऽशुभो वा । भूतानां महति कृतेऽपि हि प्रयत्ने । नाभाव्यं भवति न भाविनोऽस्ति नाशः ॥ १ ॥ " इत्येवं श्लोकद्वयेन नियतिवादमतमुपन्यस्यास्योत्तरदानाय आह-एवमेयाणि जंपंता, बाला पंडियमाणिणो । णिययाणिययं संतं, अजाणता अबुद्धिया ॥ ४ ॥ व्याख्या - एवं ते नियतिवादिनो नियतिवादमाश्रित्य जल्पन्तो 'बाला ' अज्ञानिनः पण्डितमानिनः, आत्मानमेव
SR No.090484
Book TitleSutrakrutangsutra Dipika
Original Sutra AuthorHarshkulgani
Author
PublisherZZZ Unknown
Publication Year
Total Pages413
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & agam_sutrakritang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy