________________
| व्यवस्थिता सुखदुःखं वेदयन्त्यनुभवन्ति, न वयं प्रतिप्राणिप्रतीतं सुखदुःखानुभवं निहनुमहे, अनेन अकर्तृत्ववादिनो निरस्ताः, अकरि अविकारिणि आत्मनि सुखदुःखानुभवो न स्यात् । अदुवेत्यथवा ते प्राणिनः सुखं दुःखं चानुभवन्तो 'विलुप्यन्ते' उच्छिद्यन्ते-स्वायुषः प्रच्याव्यन्ते, स्थानात्स्थानान्तरं सङ्क्राम्यन्त इत्यर्थः । एतावता नियतिवादिन एवमाख्यान्ति, जीवाः पृथक पृशम् नारकादिभवेषूत्पद्यन्ते, तत्र च सुखदुःखादिकमनुभवन्ति, ततश्च स्वस्थानाद्विलुप्यन्ते-उच्छिद्यन्ते स्वायुषः प्रच्याव्यन्ते, स्थानात्स्थानान्तरं साम्यन्त इति गाथार्थः ॥१॥
अथ पुनरपि यत्तैर्नियतिवादिभिराश्रियते तच्छोकद्वयेन दर्शयितुमाहन तं सयं कडं दुक्खं, कत्तो अन्नकडं च णं? । सुखं वा जइ वा दुक्खं, सेहियं वा असेहियं ॥२॥
व्याख्या-यत्तेन जीवेन सुखदुःखाद्यनुभूयते, एकस्मात्स्थानात्स्थानान्तरे यदुत्पत्तिर्विधीयते, तत्सर्व दुःखादि नात्मकृतं न च कालेश्वरस्वभावादिकृतं, यद्यात्मकृतं सुखदुःखादि नानुभ्यते तबन्यकृतं कुतः १, यदि स्वयमात्मना पुरुषकारेण कृतं सुखदुःखाद्यनुभूयेत ततः सेवकवणिक्कर्षकादीनां समाने पुरुषकारे कृते सति फलप्राप्तिवैसादृश्यं फलाप्राप्तिश्च न भवेत् ।। कस्यचित्तु सेवादिव्यापाराभावेऽपि विशिष्टफलावाप्तिर्दृश्यते, इत्यतो न पुरुषकारात्किश्चिदासाद्यते, किं. तर्हि ? नियतेरेवेत्येतच्च द्वितीयश्लोकान्तेऽभिधास्यते, तथा च न कालेश्वरस्वभावकृतं, यदि कालेश्वरादिकृतं सुखदुःखादि स्याचःकाकारमेव स्यात् , जगद्वैचित्र्यं कुतः ? सुभगदुर्भग-सधननिर्धनादिभेदेन जगद्वैचित्र्यं दृश्यते, तर्हि ज्ञायते-कालेश्वरादिकृतमपि न, किन्तु नियतिकृतमेव सर्व । किश्च-तत्सुखं दुःखं च द्विधा-सैद्धिकं असैद्धिकं च, यदि वा सैद्धिकं सुखमपवर्गलक्षणं दुःख