SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ मनुष्येष्विष्टवियोगानिष्टसंप्रयोग-शोकाक्रन्दनादीनि,देवेषु चाभियोग्याकिल्विषिकत्व-च्यवनादीन्यनेकप्रकाराणि दुःखानि, एवम्भूता वादिनः पौनःपुन्येन समनुमवन्तीति गाथार्थः ॥ २६ ॥ उच्चावयाणि गच्छंता, गब्भमसतिऽणंतसो । नायपुत्ते महावीरे, एवमाहु जिणोत्तमे तिबेमि ॥२७॥ ____ व्याख्या-उच्चावचानीति अधमोत्तमानि नानाप्रकाराणि वा [सं]स्थानानि 'गच्छंता' इति 'गच्छन्तो' भ्रमन्तो गर्भाद्गर्भमेष्यन्ति-यास्यन्त्यनन्तशो-निर्विच्छेदमिति, ब्रवीमीति सुधर्मस्वामी जम्बूस्वामिनं प्रत्याह-'ज्ञातपुत्रो' मगवान् भीमहावीर एवमुक्तवान् , तत्सकाशे मयाऽपि श्रुतं तथाऽहमपि ब्रवीमि, न स्वमनीषिकयेति गाथार्थः ॥ २७ ॥ इति समयाख्ये प्रथमाध्ययने प्रथमोद्देशकः समाप्तः। ___ उक्तः प्रथमोद्देशकः साम्प्रतं द्वितीयोऽभिधीयते, तस्य चायमभिसम्बन्धः-इह प्रथमोद्देशके स्वसमय-परसमयप्ररूपणा कृता, द्वितीयोद्देशकेऽपि सैवाभिधीयते, यदि वाऽनन्तरोद्देशके भूतवाद्यादिमतप्रदर्शनेन तन्निराकरणं कृतं, इह तु नियतिवाद्यादिमिथ्यादृष्टिमतान्युपदर्य निराक्रियन्ते । अथ द्वितीयोद्देशकस्यादिसूत्रंआघायं पुण एगेसिं, उववन्ना पुढो जिया। वेदयति सुहं दुक्खं, अदुवा लुप्पंति ठाणओ ॥१॥ व्याख्या-तैर्नियतिवादिभिः पुनरिदमाख्यातं-एतत्प्ररूपितं-उपपन्नाः 'पृथक् पृथग् नारकादिभवेषु शरीरेषु चेत्यनेनात्माऽऽद्वैतवादनिरासोऽवसेयः । उपपन्नाः के ? ' जीवाः' प्राणिनः सुखदुःखभोगिनः, तथा ते जीवाः पृथक पृथक् प्रत्येकदेह.
SR No.090484
Book TitleSutrakrutangsutra Dipika
Original Sutra AuthorHarshkulgani
Author
PublisherZZZ Unknown
Publication Year
Total Pages413
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & agam_sutrakritang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy