________________
इति । एवमप्यात्मानं बौद्धा नाभ्युपगतवन्तः ॥ १७ ॥ तथा परे बौद्धविशेषाश्चतुर्द्धातुकमिदं जगदाडुरित्येतद्दर्शयितुमाहपुढवी आऊ तेऊ य, तहा वाऊ य एगओ । चत्तारि धाउणो रूवं, एवमाहंसु (जाणया) आवरे ॥१८॥
-X
व्याख्या - पृथिवीधातुरापश्च धातुस्तथा तेजो धातुर्वायुश्च धातुः, एते चत्वारोऽपि पदार्था जगतो धारकत्वात्पोषकधातवोऽभिधीयन्ते 'एगओ'ति चत्वारोऽप्येते घातवो ोकाकारपरिणताः सन्तो जीवव्यपदेशमनुवते, तथा चोचुःचतुर्द्धातुकमिदं शरीरं, न तद्व्यतिरिक्त आत्मा अस्तीत्येवमाहंसु आवरे' ति अपरे बौद्धविशेषा एवमभिहितवन्त इति [ कचिद् ] ' जाणगा ' इति [ पाठः, तत्राप्ययमर्थो - X ] ' जानकाः ' ज्ञानिनः किल वयमित्य भिमानाग्निदग्धाः सन्त एवमाहुरिति । अफलवादित्वं चैतेषां क्रियाक्षण एव कर्तुः सर्वात्मना नष्टत्वात् यतस्तेषां हि मते यत्सत्तत्क्षणिकं, क्षणिकवादिनस्ते, अतः क्रियाक्षण एव कर्त्तुरभावः, क्षणिकत्वात् प्रथमक्षण एव कर्त्ता विनष्टा, पुण्यपापफलं को सुनक्ति ? अफलवादित्वात्क्रियाफलेन सम्बन्धाभावात्, अथवा सर्वेऽप्यफलवादिन एवं द्रष्टव्याः कैश्चिदात्मनो नित्यस्य अविकारिणो अभ्युपगतत्वात्, कैश्विश्वात्मन एवानभ्युपगमादिति गाथार्थः ॥ १८ ॥
अथ सूत्रकारः स्वस्वदर्शनाभ्युपगमेन मुक्तिरिति दर्शयितुमाह
आगारमावसंता वि, आरन्ना वावि पवया । इमं दरिसणमावन्ना, सबदुक्खा विमुच्चई ॥ १९ ॥
x बृहद्वृत्तौ ।