SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ व्याख्या - अगारमावसन्तो गृहस्थाः, आरण्या वा तापसादयः प्रव्रजिताः - शाक्यादयः, एवं प्रतिपादयन्ति - यथेदमस्मदीयं दर्शन ये समाश्रितास्ते सर्वदुःखेभ्यो विमुच्यन्ते, तथाहि पञ्चभूत- तञ्जीवतच्छरीवादिनामयमाशयो - यथेदमस्मदीयं दर्शनं ये समाश्रितास्ते गृहस्थाः सन्तः सर्वेभ्यः शिरस्तुण्डमुण्डन - दण्डाजिनजटाकापायचीवरधारण - केशोल्लुश्चन - नाग्न्यतपश्चरण - कायक्लेशरूपेभ्यो दुःखेभ्यो मुच्यन्ते तथा चाहु:-" तपांसि यातनाश्चित्राः, संयमो भोगवश्वना । अग्निहोत्रादिकं कर्म, बालक्रीडैव लक्ष्यते ॥ १ ॥” इति । एवं साङ्ख्या अपि वदन्ति येऽस्मदीयं दर्शनमकर्तृत्वात्माद्वैतपञ्चस्कन्धादिकप्रतिपादकमापन्नाः प्रव्रजितास्ते सर्वेभ्यो जन्मजरामरणगर्भपरम्पराने कशारीर मानसा तितीव्रवरा सांतोदयरूपेभ्यो दुःखेभ्यो विमुच्यन्ते सकलद्वन्द्वविनिर्मोक्षं मोक्षमास्कन्दन्तीति ॥ १९ ॥ अथ तेषामेवाफलवादित्वमा विष्कुर्वन्नाह तेणावि संधि णचाणं, ण ते धम्मविऊ जणा । जे ते उ वाइणो एवं, न ते ओहंतराहिया ॥ २० ॥ व्याख्या- ते पश्चभूतादिप्ररूपका वादिनः 'सन्धि' भावसन्धिर्ज्ञानावरणादिकर्मविवररूपस्तं अज्ञात्वा ते प्रवृत्ताः [ यथा , आत्मकर्मणोः सन्धिर्द्विधा ( द्रव्य ) भावलक्षणा भवति ] तथा अबुध्दैव ते वराकाः दुःखविमोक्षार्थमभ्युद्यता इति मावः । [तश्चैवं] अत एव [ते] सम्यग्धर्मपरिच्छेदे कर्त्तव्ये न [विद्वांसो] निपुणाः [जनाः-] पञ्चभूतास्तित्वादिवादिनो लोका इति 'जे ते उ वाइणो एवं' ये च ते एवमनन्तरोक्तप्रकारवादिनो नास्तिकादयो भवौव + स्वचरणशीलास्ते न भवन्तीत्यर्थः ॥ २० ॥ x बृहद्वृत्तौ + संसारः ।
SR No.090484
Book TitleSutrakrutangsutra Dipika
Original Sutra AuthorHarshkulgani
Author
PublisherZZZ Unknown
Publication Year
Total Pages413
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & agam_sutrakritang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy