SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ RY भावात् , असदुत्पत्तौ कर्तुापार एव न परिस्फुरति, ततश्च सर्वेऽपि भावाः सर्वदापि नियतिभावमाश्रिताः, नित्या एव || सन्तीति भावः, असतः पदार्थस्योत्पत्तिरेव न सम्भवति तर्हि कथमुत्पद्यते विनश्यते च, आविर्भावतिरोभावमात्रत्वादुत्पत्ति विनाशयोरिति गाथार्थः ॥ १६ ॥ ___इत्यात्मषष्ठवादिमतं निरूपितं, अस्योत्तरं नियुक्तिकारेण प्रादायि, तनियुक्तिगाथाव्याख्यानं बृहट्टीकातोऽवसेयं । अथ ) अफलवादाधिकारमाविर्भावयन्नाहपंच खंधे वयंतेगे, बाला उ खणजोइणो। अन्नो अणन्नो नेवाहु, हेउयं च अहेउयं ॥ १७॥ व्याख्या-'एके' केचन वादिनो बौद्धाः पञ्च स्कन्धान् वदन्ति, रूप-वेदना-विज्ञान-संज्ञा-संस्कारोख्याः पव स्कन्धा विद्यन्ते, एतेषां परमार्थः षड्दर्शनसमुच्चयादिग्रन्थान्तरेभ्योऽवसेया+, बौद्धानां मते पश्च स्कन्धा एव, न चैतेभ्यो | __ + १-" तत्र रूपस्कन्धः पृथिवीधात्वादयो रूपादयश्च" (बृहवृत्तिः ) " रूपमिति रगरगायमाणपरमाणुप्रचयः, बौद्धमते हि स्थूलरूपस्य जगति विवर्तमानपदार्थजातस्य तदर्शनोपपत्तिभिर्निराक्रियमाणत्वात्परमाणव एव तात्त्विकाः।” (षड़ दर्शनसमु०) २-"सुखा दुःखा अदुःखसुखा चेति वेदना-वेदनास्कन्धः।" (बृवृत्तिः), " वेदनेति-वेद्यत इति वेदना, पूर्वभवपुण्यपापपरिणामबद्धाः सुखदुःखानुभवरूपाः। भिक्षुर्भिक्षामटॅश्चरणकण्टके लग्ने प्राह-' इत एकनवतेः कल्पे, शक्त्या मे पुरुषो हतः । तेन कर्मविपाकेन, पादे विद्धोऽस्मि भिक्षवः । ॥१॥" (षड्द०) ३-" रूपविज्ञानं रसविज्ञानमित्यादि विज्ञान-विज्ञानस्कन्धः" ( बृहवृत्तिः)। " विज्ञानमिति विशिष्टं ज्ञानं सर्वक्षणिकत्वं,
SR No.090484
Book TitleSutrakrutangsutra Dipika
Original Sutra AuthorHarshkulgani
Author
PublisherZZZ Unknown
Publication Year
Total Pages413
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & agam_sutrakritang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy