________________
दुहओ ते ण विणस्तंति, णेय उप्पज्जए असं । सबे वि सबया भावा, णियतीभावमागया ॥ १६ ॥ ___व्याख्या-विनाशो हि द्विधा, सहेतुको निहतुकश्च, तत्र[ ते ] पृथिव्यादयः पदार्था आत्मषष्ठा 'उमपतः' सहेतुकनिहतकविनाशद्वयेनापि न विनश्यन्ति. यथा बौद्धानां स्वत एव नितको विनाशः सम्पद्यते पदार्थानां. वैशेषिकाणांचा लक्कुटादिकारणसानिध्ये विनाशः सहेतुका, एतेषां च मते उभयरूपेणापि विनाशेन लोकात्मनोन विनाश इति भाषा: यदि वा 'दुहओ'त्ति द्विरूपादात्मनः स्वभावाचतनाचेतनारूपान विनश्यन्तीति, तथाहि-पृथिव्यादयो भावाः स्वरूपापरित्यागेन नित्यानि, पृथिव्यप्तेजोवाय्वाकाशानि न स्वरूपपरित्यागं कदाचिदपि कुर्वन्ति, अत एव नित्यानि । आत्माऽपि नित्य एव, अकृतकत्वादिति । तथा चोक्तं-" +नैनं छिन्दन्ति शस्त्राणि, नैनं दहति पावकः । न चैनं क्लेदयः त्यापो, न शोषयति मारुतः॥१॥अच्छेद्योऽयमभेद्योऽय-मविकारी स उच्यते । नित्यः सततगः स्थाणुरचलोऽयं सनातनः ॥२॥" 'णे य उप्पजए असं' एवं च स्वभावेन वस्तु नासदुत्पद्यते, असतश्चेत्पदार्थस्यो. त्पत्तिः स्यात्तर्हि गगनारविन्दशशविषाणादयोऽपि भावा उत्पधेरन् , न चोत्पद्यन्ते, तर्हि ज्ञायते-असतः पदार्थस्योत्पत्तिरेव नास्ति, यथा मृत्पिण्डादेव घटोत्पत्तिः, मृत्ण्डेि घटसद्भावात् , यदि असदुत्पत्तिस्तन्यस्मादपि भावात् घटोत्पत्तिर्मगयतांक, परं न कोऽपि सकर्णः पुमान् असदुत्पत्ति प्ररूपयति, पटोत्पत्तौ तन्तव एव कारणं, परं नहि पटोत्पत्ती मृत्पिण्डगवेषणं कुर्यात् घटोत्पत्तौ च तन्तूनां गवेषणं, अतः सति कारणे कार्यमुत्पद्यते, एवं च कृत्वा सर्व नासदुत्पद्यते, असति पदार्थे कारकव्यापारा
+जीव । - शाश्वतः। * विचारयन्तु ।