________________
m
निन्दिते आरम्मे निश्चयेन नितरां वा श्रिता:-सम्बद्धाः, किमुक्तं भवति ? ते चार्वाका मूर्खाः सन्तो भूताव्यतिरिक्तमारमामावं मन्यन्ते, तदभावे + च पुण्यपापयोरप्यभावः, ततश्च परलोकाभावः, इत्यादिमिथ्यायुक्तिमिरात्माद्यभावप्रतिपादनपरा: प्राण्युपमर्दकारिणि निश्शूकतया महारम्भे निलीयन्ते, ततश्च "महारंभयाए महापरिग्गहयाए कुणिमाहारेणं पंचिंदियवहेणं जीवा नेरइयत्ताए कम्मं पकरिति " इति वचनात् ते महारम्भनिमग्नाः सप्तमनरकावासेषुत्पद्यन्ते । अत्र परवादिनिराकरणं हेतुयुक्तिभिस्तबृहट्टीकातोऽत्रसेय, अत्र तु संक्षिप्तलिखितत्वादिति गाथार्थः ॥ १४ ॥
साम्प्रतमात्मषष्ठवादिमतं पूर्वपक्षयितुमाहसंति पंच महब्भूया, इहमेगेसि आहिया। आयच्छट्ठो पुणो आहु, आया लोगे य सासए ॥१५॥ ___ व्याख्या-एकेषां वादिनां मते पञ्च महाभूतानि यथा सन्ति तथा आत्मा षष्ठः, कोऽर्थः ? पश्च महाभूतानि सन्ति तथा तेभ्यः पृथग्भृतः षष्ठः आत्माख्यः पदार्थोऽस्तीति भावः । एतानि चात्मषष्ठानि भूतानि यथाऽन्येषां वादिनां मते अनित्यानि तथा नामीषामिति दर्शयति-'आया लोगे य सासए' इति, आत्मा लोकश्च पृथिव्यादिरूपोऽविनाशी, तत्रात्मनः सर्वव्यापित्वादमूर्त्तत्वाच्च आकाशस्येव शाश्वतत्वं, पृथिव्यादीनामपि तद्रूपाप्रच्युतेरविनश्वरत्वमिति गाथार्थः ॥ १५ ॥
शाश्वतत्वमेव भूयः प्रतिपादयितुमाह+ आत्माभावे । १ महारम्भतया महापरिग्रहतया कुणिमा(मांसा )हारेण पञ्चेन्द्रियवधेन जीवा नैरयिकतया कर्म प्रकुर्वन्ति ।