________________
॥ ॐ अहम् ॥ सूत्रकृताङ्ग-सूत्र-दीपिका।
हर्षकुलगणि-रचिताप्रणम्य श्रीजिनं वीरं, गौतमादिगुरूंस्तथा । स्वान्योपकृतये कुत्र, द्वितीयाङ्गस्य दीपिकाम् ॥ १॥ ___ इह हि प्रवचने चत्वारोऽनुयोगः । तथाहि-चरण करणानुयोगः १, द्रव्यानुयोगः २, धर्मकथानुयोगः ३, गणितानु.
योगश्च ४, तत्र प्रथम श्रीमदाचाराचरण करणानुयोगप्राधान्येन व्याख्यातम् । अथेदं श्रीसूत्रकृतास्यं द्वितीयाई द्रव्यानु१ योगप्राधान्येन व्याख्यायते । सूत्रकृताङ्गमिति च क: शब्दार्थः । उच्यते-' सूत्र' स्वपरसमय सूचनं कृतं येन तत्सूत्रकृतं, |
तदेवाझमिति । तत्र श्रुतस्कन्धद्वयं, प्रथम श्रुतस्कन्धे पोडशाध्यकनानि द्वितीवे सप्त । तत्र प्रथमश्रुतस्कन्धस्य प्रथमाध्ययने चत्वार उद्देशकाः, तत्रापि पूर्व प्रथमोद्देशकः तस्या[य]मादिश्लोका।
बुज्झिज्जा० x x x (सूत्रम्) ॥१॥ व्याख्या-'बुध्येत ' जानीयात् , किं तत् ? बन्ने' बध्यते जीवोऽनेन बन्धनं ज्ञानावरणाद्यष्टप्रकार कर्म बढेको