________________
मिथ्यात्वादयो वा परिग्रहारम्भादयो वा बन्धनं जानीयादित्युक्तं न च ज्ञानमात्रेण सिद्धिरित्याह । 'तिउद्विजा-परि जाणिआ' परिज्ञाय त्रोटयेत् अपनयेत्, आत्मनः पृथक्कुर्यादित्यर्थः । अथ जम्बूस्वामी शिष्या तुधर्मस्वामिन माह, किमाहेति, श्रीवीरः किं बन्धनं 'आह' उक्तवान् ? किंवा जानन् बन्धनं त्रोटयति ? उत्तरमाह ॥ १ ॥
चित्तमंत०
X X X ( सू० ) ॥ २ ॥
व्याख्या---' चितवत् ' सचित्तं द्विपदचतुष्पदादि, अचितं कनकरजतादि यमपि 'परिगृल' परिग्रहं कृत्वा 'कृशमयि' कमपि स्वयं अन्यान् वा ग्राहयित्वा गृहतो वान्याननुज्ञाय एवं दुःखान्त्र मुख्यते परिग्रह एव परमार्थवोऽनर्थमूलमि त्युक्तम् || २ || परिग्रहतचावश्यम्भावी आरम्भस्तमिव प्राणातिपात इति दर्शयति । -
सयं० X X X ( सु० ) ॥ ३ ॥
व्याख्या अथवा प्रकारान्तरेण बन्धनमेवाह-स परिग्रहवान् स्वयं आत्मना प्राणान् अतिपातयेत् जीवान् हिंस्यात् अथवा 'अन्यैः ' परैरपि घातयति, मतान्याननुजानीते, तदेवं कृतकारितानुमतिभिः प्राणिवातं कुर्वन् आत्मनो वैरं वर्द्धयति, ततश्व बन्धनान्नमुच्यत इति मात्रः ।। ३ ।। पुनर्वन्धनमेवाश्रित्याह-
जंसि कुले० X X X ( सू० ) ॥ ४ ॥
व्याख्या - यस्मिन् कुले जातो यैव मित्रैर्मार्यादिभिर्चा सह संसेभरः तेषु मित्र पितृमातृभार्यादिषु 'ममापी'ति ममत्व