SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ It 83%E दिवसात मवादीत् | अयि द्रौपदि ! त्वमस्माभिर्जिताऽसि पाण्डवानुगामिनी कथं बुभूषसि १ । निवर्तस्व अस्माकम्प्रेयसीन्भूय सुखं सुदव, इत्युदीर्य कचग्राहं तो दुर्योधनान्तिकमानीतवान् । तत्र स्थितां तां दुर्योधन ऊचे । हे सुन्दरि ! तत्र किन्तिष्ठसि ? मम वामाङ्काधिरोहिणी भव । वाति अत्राऽवसरे दुःशासन उत्थाय तस्याश्वीरमाचकर्ष, परं महासतीशीलमाहात्म्यात्तत्क्षणं तदङ्गानि शासनदेवता वस्त्रेण समावृणोत् । आकृष्टेऽपि दुःशासनेन तद्वखे लोकैरनावृतं तदनं नालोकि । इत्थं सहस्रशो दुःशासनस्तद्वसनमाकृष्टवान् । देवता व नवनवैर्बसनैः समावृणोत् । किमधिकं त्रुये, यावन्ति वसनानि तेनाकृष्टानि तावन्ति शासनदेव्या तस्यै प्रदत्तानि । इत्याश्चर्यकरी चमत्कृतिं पश्यन्तः सर्वे सभ्यास्तां प्रशंसन्तो राजानमनुनीय मोचयामासुः । ततस्तन्मुक्ता समागत्य पाण्डवैः सह सङ्गताऽभवत् । सती द्रौपदी शीलप्रभावादेव पाण्डवानामती महती सती लोके विस्तृता । अहो ! स्वाङ्गास्त्राऽकर्षणादिदुःसहमाना सा द्रौपदी मनागपि सज्जनतां न जहौं । मनसि मालिन्यमानीय तस्मै दुर्योधनाय नो चुकोप । एनां कथामाकर्णयद्भिरन्यैरप्येवमेव कर्तव्यम् । पुनरपि सज्जनतोपरि अञ्जनायाः २१- प्रबन्धः इह हि भरतक्षेत्रे सागरसमीपे दन्तिपर्वतोपरि महेन्द्राऽभिधाननगर मस्ति । तत्र माहेन्द्रनामा विद्याघरो राजाऽस्ति । तस्य सुन्दरीनाम्नी पत्न्यस्ति । तस्याः कुक्षेः शतपुत्राणामुपरि पुत्रयेाञ्जनासुन्दरी समुत्पेदे । तामुद्वायामालोक्य तत्पित्रानेकेषां विद्याधर राजकुमाराणां चित्राणि समानीय तस्यै दर्शितानि । तत्र हिरणाभविद्याधरराजस्य सुमतिकुक्ष्युभूत विद्युत्प्रभकुमारस्तथा वैतान्यपर्वतीयाऽऽदित्यनगरीय विद्याधरराजप्रह्लादस्य केतुमतीकुविजातः पवनजम कुमारस्तस्या अनुरूप आसीत् । एतौ
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy