________________
तानि सर्राण्यकीणात् तदर्थमस्योपरि स्त्रीपुत्रा भृशं कुप्यन्ति स्म । तथापि सुरत्नक्रयणात्स नैव विरराम । तानि रत्नानि लोह
मय्यां पेटिकायां निक्षिप्य साऽपि पेटिका कोशालये सुरक्षिवाकारि । तत्रैव स सदा सुष्वाप | कस्यापि तस्य विश्वासो R नाऽऽसीत् । तत्रालये पुत्रादीनामपि गमनाऽऽगमने न भवतः । कदापि तदालयं स नाऽमुञ्चत् । अथैकदात्यावश्यककार्यत्र| शादन्यत्र गतवन्तं तं ज्ञात्वा तत्पुत्रास्तानि सर्वाणि सुरत्नानि विचिक्रियुः । तानि लात्वा तेऽपि वैदेशिका नानादिशासु गत
वन्तः । गृहागतः स तत्रालये कपाटोद्घाटनमालोक्य खिद्यन् भार्यामपृच्छत् । भो भायें ! रत्नानि कथं न दृश्यन्ते । तयोक्तम्* पुत्रस्तानि वैदेशिकाना हस्ते विक्रीतानि । तदाकये स भृशं पश्चात्तापमकरोत् वेन किं स्यात् । नानादिक्षु गतानि तानि रत्ना
न्यस्थ पुनरधिगताणि दुष्कराणि सन्ति । कदाचिंदैवयोगेन देवसाहाय्यादिना तानि रत्नान्यपि तेन पुनरधिगन्तुं शक्यन्ते, परं ॥ है। धर्म विना यस्याऽतिदुर्लब्धमिदं मनुष्यत्वं गच्छति तेन पश्चात्तापं शतशः कुर्वता यतमानेनाऽपि तत्पुनर्लन्धु नैत्र शक्यते । अतो घर्मे समुद्यतितव्यं भव्यैः सदैव ।
६-अथ मनुष्यत्वदौलभ्ये स्वमस्य १५-दृष्टान्तो दर्श्यतेतयाहि-पाटलिपुरात्कलाकुशलो मूलदेवो राजपुत्रो धूतव्यसनास्पित्रा पराभूतो निर्गतो गुटिकाकतवामनरूपोऽस्यामवन्तिपुर्यों निवसति स्म । स च द्विसप्ततिकलाविज्ञानवानस्ति | तथा सकलजनचित्ताहलादनकरोऽस्ति । तत्रैव नगरे देवदसाऽभिधाना गणिका रूपलावण्यतारुण्याऽऽदिगुणयोगादद्वितीया वर्तते । तस्यां स कुमारो रागीभूय दिवाऽनिशं तदन्तिक एव तिष्ठति । क्षणमपि सुधारसभृस्कृम्पिका स्वादिष्टामित्र तां कुशीलामपि न जहाति । यतः