________________
मोजमग दीनार राशिमा मनः प्रयच्छन्तु " इति राजमुद्रादिनादि प्रमाणपत्र दत्तम् । वत्प्रमाणपत्र लात्दा ४॥ स ब्रामणः स्वसभाऽऽगतः। ततःप्रभृति स प्रत्यहं तथैव भुञ्जान एकैकदीनारदक्षिणाअगृहे । इत्यर्वतस्तस्य विजप पक्र
वर्तिगृहे पुनभोक्तुं समयो यथा नाध्यासीत् । यतस्तस्य चक्रवर्तिनो द्विनवतिसहस्रोत्तरलक्षपत्नीनामावासादयस्तावन्तः पृथक् पृथगेवाऽऽसन् । पुनस्तस्य महानगराणां द्विसप्ततिसहस्राण्यासन् । एकैकस्मिन् सहस्राणि लक्षाणि च गृहाण्यासन् । एवं ग्राम-कर्वटमण्डपद्रोणादयस्तस्याऽऽसन्, एतेषां मध्ये तस्मै चक्रवतिगृहे पुनर्मोजनाऽवसरो यथा दुर्लभो दृश्यते, तथैवाऽमीषां प्राणिनां महता यत्नेन सुकृतशतयोगेनैकदा लवमिदं मानुषजन्म प्रमादादिवशाद गतं सत् पुनलम्पं कदाऽपि न भवितुमर्हति । अतः प्रमादादिक विहाय सर्वैरप्येतदतिदुर्लभ लब्धं मनुष्यत्र धर्माराधनेन साफल्यमवश्यमेव नेयमिति ।
२-अथ मनुष्यस्वदौलभ्ये पाशकस्य-११ दृष्टान्त:___ तथाहि-अस्मिभेव भरतक्षेत्र गोलकदेशे चणकाख्यपुरे चणकाभिधः कश्चिदेको ब्राह्मणो निवसति स्म । तस्य चणेश्वरी नाम्नी भार्याऽऽसीत् । ती दम्पती जैनधर्मानुरागिणावभूताम् । चणेश्वर्याः कुक्षौ सदन्तः पुत्र उदपद्यत । जातं तथाभूतमालोक्या
निष्टशझ्या सा शिशोर्दन्तमत्रोटयत् । एकदा तद्गाहे कश्चन साधुराययौ । सा ते साधुं निजसदन्तपुत्रजन्मफलमपृच्छत् । तनिशम्य || साधुना तत्फलमित्याख्यातम्-असौ जातको राज्यं भोश्यति । तच्छ्रवाऽतिहृष्टा माता पृच्छति हे मुने ! मयाऽनिष्टशयारप गर्भानुगो दन्तस्त्रोटितः । ततो मुनिरवादीद-हे. सुभगे ! दन्तवर्षणादसौ स्वयं राज्यभोक्ता न स्यात, किन्त्वन्यजन राज्यासने संस्थाप्य राज्यभोगी भविष्यति । तत्फलाडकर्णनेन तो नितरां जहपतुः । ततस्ताम्यां तस्य शिशोचाणक्येवि नाम