SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ अप्युददो | षट्खण्डायाः पृथिव्याचक्रवतीं राजा जातः । तस्य षण्णवविकोटिग्रामा अभूवन् । महानगराणां द्विसप्ततिसहस्रमासीत् । पढ्नमष्टचत्वारिंशत्सहस्रं बभूव । लघुग्रामादयस्त्वसंख्याता आसन् । द्रोणादयो नवनिधयोऽपि तदायचा बभ्रुवुः । रत्नानां चतुर्दशाऽऽसन् । किञ्च पण्णवतिकोटिपदातयः । गजेन्द्राचतुरशीतिलक्षाः, तावन्तोऽश्वाथ, एतावन्तो स्था भूवन् । एवञ्चतुरङ्गसेनया शोभमानः पञ्चविंशतिसहस्रदेवैः संसेव्यमानो द्विनवतिसहस्राधिकलक्षदाराभिः सह सुखं भुञ्जानो ब्रह्मदत्तचक्रवती महत्या समृद्ध्या तां कांपिल्यपुरीमाजगाम । तत्कालमेव महादुष्टं तं दीर्घनृपं यमराजसदनाऽतिथि व्यधात् । साऽपि चुलनी राज्ञी त्रस्ता सती नष्ट्वा दीक्षामग्रहीत् । शुद्धसंयमं परिपालयन्ती कृतकर्माणि क्षपयन्ती तस्मिन्मेव भये मृत्वा मोक्षमाप । इत्थं ब्रह्मदचसार्वभौमः प्रजाः पालयन सुखेन पट्खण्डां महीं शशास वरधनुः प्रधानपदे तिष्ठनन्यायेन सर्व राज्यकार्यङ्करोतिस्म । अर्थकदा येन ब्राह्मणेन सार्धमष्टचत्वारिंशत्क्रोशपर्यन्तामटवी मुलसितवान् ब्रह्मदत्तश्चक्रवर्तिनमाकर्ण्य काम्पिल्यपुरे त्वयाऽवश्यमागन्तव्यमिति वचनञ्च यस्मै पुरा दत्तवान् स ब्राह्मणो ब्रह्मदत्तश्चक्रवर्ती जात इत्याकर्ण्य तद्दत्तवचनश्व संस्मृत्य तत्राऽऽगतः । वतस्तं मिलित्वा पूर्ववृत्तं निगदितवान् । चक्रवर्तिनाऽपि स समुपलक्षितः । कथितश्च हे भट्टराज ! मम सर्वमपि स्मृतिपथमारोहति । अहं तवोपरि तुष्टोऽस्मि । अत इदानीमीप्सितं दानमहं तुभ्यं किं ददामीति ब्रूहि । तत्राऽवसरे तेनो हे राजराजेश्वर ! अहं भार्यामापृच्छय पुनरिहागत्य यथेष्टं याचिष्ये । राज्ञोक्तं तथास्तु याहि ततः स गृहमागत्य पत्नीमतिहृष्ट जगाद । अप्रिये ! स ब्रह्मदत्तचक्रवर्ती काम्पिल्यपुरे मिलितः, मषि प्रसन्नो भूत्वा वक्ति - हे भट्ट ! तत्र यदीप्सितं
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy